Book Title: Adhar Abhishek ka Suvarna Avasar
Author(s): Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti
Publisher: Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti

View full book text
Previous | Next

Page 45
________________ भो भो भव्यलोकाः इह हि भरतैरावत-विदेहसंभवनां समस्त-तीर्थकृतां जन्मन्यासन-प्रकम्पानन्तर-मवधिना विज्ञाय, सौधर्माधिपतिः सुघोषाघंटा-चालनानन्तरं सकल-सुरासुरेन्द्रैः सह समागत्य सविनय-मर्हद्-भट्टारकं गृहीत्वा, गत्वा कनकाद्रि-शृंगे, विहित-जन्माभिषेकः शान्ति-मुद्घोषयति यथा ततोऽहं कृतानुकारमिति कृत्वा महाजनो येन गतः स पन्थाः इति भव्यजनैः सह समेत्य स्नात्रपीठे स्नात्रंविधायशान्तिमुद्धोषयामि, तत्पूजायात्रास्नात्रादिमहोत्सवा-नन्तरमिति कृत्वा कर्णं दत्त्वा निशम्यतां निशम्यतां स्वाहा। ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां, भगवन्तोडर्हन्तः सर्वज्ञाः सर्वदर्शिन त्रिलोक नाथाः त्रिलोक-महिताः त्रिलोक-पूज्याः त्रिलोकेश्वराः त्रिलोकोद्योतकराः । ॐ ऋषभ-अजित-सम्भव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभसुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लिमुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमानान्ता-जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा । ॐमुनयो मुनिप्रवरा रिपुविजयदुर्भिक्ष-कान्तारेषुदुर्गमार्गेषुरक्षन्तुवोनित्यं स्वाहा । ॐ ही श्री धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-विधासाधन-प्रवेशनिवेशनेषु सुगृहीतनामानोजयन्तु तेजिनेन्द्राः । ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-काली महाकाली-गौरी-गान्धारी-सर्वास्त्र-महाज्वाला-मानवी वैरोट्या-अच्छुप्ता-मानसीमहामानसी षोडश विद्यादेव्योरक्षन्तु वो नित्य स्वाहा । ॐ आचार्योपाध्याय-प्रभृति-चातुर्वर्णस्य श्री श्रमणसंघस्य शान्तिर्भवतु तुष्टिर्भवतु, पुष्टिर्भवतु । ॐ ग्रहाश्चन्द्र-सूर्यांगारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतु-सहिताः सलोकपालाः सोम-यम-वरुण-कुबेर-वासवादित्य-स्कन्द-विनायकोपेता ये चान्येऽपि ग्राम-नगर-क्षेत्र-देवातादयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीणकोशकोष्ठागारा नरपतयश्च भवन्तु स्वाहा । ____ ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत्-स्वजन-सम्बन्धि बन्धुवर्गसहिता नित्यं चामोद-प्रमोदकारिणः अस्मिंश्च भूमण्डलआयतननिवासि-साधु-साध्वी-श्रावकश्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु | ॐ तुष्टिपुष्टि- ऋद्धि, वृद्धि माङल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यतु दुरितानि शत्रवः पराङमुखा भवन्तु स्वाहा । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48