Book Title: Adhar Abhishek ka Suvarna Avasar
Author(s): Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti
Publisher: Akhil Bharatiya Tirthprabhavak Adhar Abhishek Anushthan Samiti

View full book text
Previous | Next

Page 46
________________ श्रीमते शान्तिनाथाय नमः शान्तिविधायिने, त्रैलोक्यस्यामराधीश, मुकुटाभ्यर्चिताङ्घये। शान्तिः शान्तिकर:श्रीमान्, शान्तिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे। उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति-दुःस्वप्न-दुर्निमित्तादि, सम्पादितहित सम्पन्नामग्रहणं जयतिशान्तेः। श्री संघ-जगज्जनपद-राजाधिप-राजसन्निवेशानां गोष्ठिक-पुर-मुख्याणां, व्याहरणैाहरेच्छान्तिम् । श्री श्रमण-संघस्य शान्तिर्भवतु, श्रीजनपदानांशान्तिर्भवतु, श्रीराजाधिपानांशान्तिर्भवतु, श्री राजसन्निवेशानां शान्तिर्भवतु, श्री गोष्ठिकानां शान्तिर्भवतु, श्री पौरमुख्याणांशान्तिर्भवतु, श्रीपौरजनस्यशान्तिर्भवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु, ॐ स्वाहा, ॐ स्वाहा, ॐ श्रीपार्श्वनाथाय स्वाहा. एषा-शान्ति-प्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुकुमचन्दन-कर्पूरागरु-धूपवास-कुसुमांजलिसमेतःस्नात्र-चतुष्किकायां श्री सङ्घ-समेतः शुचिशुचिवपुः पुष्प-वस्त्र-चन्दना-भरणालङ्कृतः पुष्पमालां कंठे कृत्वा शान्तिमुद्घोषयित्वाशान्तिपानीयंमस्तके दातव्यमिति । नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणिपठन्तिमंन्त्रान् कल्याणभाजो हि जिनाभिषेके ।। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तुनाशं, सर्वत्र सुखी भवतु लोकः ।। अहं तित्थयरमाया शिवादेवी, तुम्ह नयरनिवासिनी। अम्ह सिवं तुम्ह सिवं असिवोवसमं सिवं भवतु स्वाहा । उपसर्गाः क्षयं यान्ति, छिध्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेतिपूज्यमाने जिनेश्वरे ।। सर्वमङ्गल-माङ्गल्यं, सर्वकल्याण-कारणम् । प्रधानं सर्वधर्माणां जैन जयति शासनम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48