Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ ॥ अहम् ॥ • जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥१॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चिताहये ॥२॥ आचारमेरोगदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेषमशेषितक्रियः॥३॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽयश्रुतस्कन्धः समारभ्यते, अस्य चायमभिस|म्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राद्ये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु चन समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्ग्रेपोक्तस्य च प्रपञ्चाय तदनभूताश्चतस्रश्चूडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह १°तविशेष. २ °नतम् ३ वीरनाथाय ४ नये ५ नवब्रह्मचर्यमयोऽष्टादशपदसहनको वेदः । भवति न सपश्चचूलो बहुबहुतरः पदाप्रेण ॥१॥ dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 232