Book Title: Acharangsutram Part 01 Author(s): Shilankacharya, Publisher: Agamoday Samiti View full book textPage 8
________________ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययनं १ उद्देशकः१ इह हि रागद्वेषमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात् , स चाहत एव, अतः प्रारभ्यतेऽहंद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् , तदुक्तम्-चरणपडिवत्तिहेउं जेणियरे तिणि अणुओग"त्ति, तथा “चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥१॥" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥ १ ॥” तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम् , अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्द्यन्तःपातित्वान्मङ्गलमिति, एतच्चा| विघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रं 'से जहा केवि हरए पडिपुण्णे चिइ समंसि भोम्मे उवसन्तरए सारक्खमाणे इत्यादि, अत्र च इदगुणैराचार्यगुणोत्कीर्तनम् , आचार्याश्च पञ्चनमस्का १ चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतबो धर्मकथाकालदीक्षादिकाः । द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य चरणं तु ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 640