Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 16
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥५॥ बज्झो तवो होइ ॥ ४ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोविय अभिंतरओ तवो होइ ॥ ५ ॥ वीर्याचारस्त्वनेकधा - 'अणि गूहियवलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायव्वो वीरियायारो ॥ ६ ॥ एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानीमाचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागाल:, आगालनमागालः - समप्रदेशावस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्न प्रदेशावस्थानं, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरलानामत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मि - नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव तत्र व्यतिरिक्तं शिरोबाह्वादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम् आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णे सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्ण वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीर्ण त्विदं - 'सरसो चंदणपंको अग्घइ सरसा य गंधकासाई । पाडलिसिसमल्लिय पियाइँ काले निदाहंमि ॥ १ ॥ भावाचीर्णे तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा १ सरसश्चन्दनपङ्कोऽर्घति सरसा च गन्धकाषायिकी । पाटलशिरीषमल्लिकाः प्रियाः काले निदाघे ॥ १ ॥ Jain Education International For Personal & Private Use Only अध्ययनं १ उद्देशकः १ ॥ ५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 640