Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीआचाराङ्गवृत्तिः (शी०)
अध्ययनं१ उद्देशकः१
| नियुक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-"उद्देसे णिद्देसे य णिग्गमे खेत्तकालपुरिसे य । कारणपच्चयलक्खण णए समोयारणाऽणुमए ॥१॥ किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवागरिस फासणणिरुत्ती ॥२॥" सूत्रस्पर्शिकनियुक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति |-परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किञ्चिद् बिभणिषुरशेषप्रत्यूहोपशमनाय मगलार्थ प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थ सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह
वंदित्तु सवसिद्धे जिणे अ अणुओगदायए सव्वे । आयारस्स भगवओ निजुत्तिं कित्तइस्सामि ॥१॥
तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम् , अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे ति 'वदि अभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं ध्मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्र
१ उद्देशो निर्देशश्च निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ॥ १॥ किं कतिविधं कस्य क्व केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥ २॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 640