________________ भिसमीक्ष्य कालतो यावज्जीवं भावतोऽरक्तद्विष्टश्च धर्ममाचक्षीत। स आचक्षीत शान्त्यादिरूपं धर्मम्। स च धर्ममाचक्षाणः परिहरेत् स्वपराऽऽशातनाम् सर्वजीवाऽऽशातनां च। एवञ्चासौ जलबाधारहितद्वीप इव भवति शरणम्। कायव्याघातः सङ्ग्रामशीर्षतया व्याख्यातः। न तत्र परीषहसेनातोऽपि बिभेति मुनिः, स एव पारङ्गमी। स च परीषहैर्हन्यमानोऽपि फलकवत्तिष्ठति। न च मृत्युं यावदप्यसौ शङ्कते तत इति। 66