Book Title: Acharangopanishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 166
________________ नादिकं कुर्यात्, शस्त्रेण तच्छेदनादिकं कृत्वा शोणितादिकं निस्सारयेत्, स्वेदाक्षिमलप्रभृति विशोधयेत्, वालरोमसंस्कारं कुर्यात्, शीर्षतो लिक्षादि वाऽपनयेत्, अलङ्कृतं वा हारादिभिः कुर्यात्, शुद्धाशुद्धवचोबलेन मन्त्रादिसामर्थ्यरूपेण सचित्तकन्दादिना वा चिकित्सां कुर्यात्-तदेतत् सर्वमपि मुनिर्न मनसाऽभिलषेत्, नापि वाचा कायेन वा कारयेत्। कटुवेदनाः परेषां कृत्वा जीवा अनन्तगुणां वेदयन्ति वेदनामिति परिभावयताऽप्रतिकर्मशरीरेण भाव्यम्।

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180