Book Title: Abhinandan Jin Stotram
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ अनुसन्धान-५६ "सायर सलिलं व सुद्धहिययं [] इति वचनात् । संवरजश्चन्द्रः, तद्वत् कलया सहितं वदनं यस्य तं [स-कलेन्दुवदनं], कमलनयनाभिः कामिनीभिः गीतं स्तुतम् ॥४॥ __ संवरज० संवरजजनितः कमलभूर्ब्रह्मा,संवरशायी नारायणः, संवरदवाहनो जलदवाहनो महेशः, तैः सेव्यः, तम् । संवरजपुत्र-पुत्री [कमल-पुत्र [ब्रह्मापुत्री]शारदा, संवरभवमन्दिरा कमलमन्दिरा लक्ष्मीः । तया [ताभ्यां] पूजितः तम् ॥५॥ असंवर० न विद्यते संवरं शरीरं यस्य सः असंवरः [अनङ्गः] कन्दर्पः, तद्वद् वरः प्रधान आकारो यस्य सः-असंवर-वराकारः, तम् । संवरधिः समुद्रः, ततो जातश्चन्द्रः, तद्वद् विमलगुणसमूहगृहम् । संवरजबन्धुः कमलबन्धुः सूर्यः, तत्सदृशः प्रतापो यस्य सः, संवरजबन्धुसमानप्रतापः तम् ॥६॥ संवरसमानगुणभृत्, कषायसंवरविताशने कृष्णः । कर्मकरिसंवराऽरिः संवरनयनो जिनो जीयात् ॥७॥ अव० शवरो हरः, तत्समानशुभत्वात् गुणधारकः । कषाय एव शंबरः [शंबरनामा दैत्यः] कषायशम्बरः, कषायशम्बरस्य विनाशः, तस्मिन् कषायसंवरविनाशने, कृष्णः नारायणो शबरो दैत्यभेदः । कर्म चासौ करि(री) कर्मकरी, तस्मिन् कर्मगजे शम्बरारिः मृगारिः सिंहः । संवरनयनो मृगनयनो जिनस्तीर्थाधिपो जीयात् ॥७॥ जय जिन ! संवरवारक ! भवसंवरराशिसंवरे प्राप्तः । संवरमदवरगन्धः संवरजनबोधिदो देवः ॥८॥ अव० जय हे जिन ! त्वं जय, हे शम्बरवारक ! मत्सरवारक!, त्वं किम्भूतः ? - प्राप्तः, कस्मिन् विषये ? - संसारसंवरराशिः [जलराशिः] समुद्रः, तस्य शवरे तटे [शबले], शंबरमदो मृगमदः, तत्समानवरो रुचिरो गन्धो यस्य सः, शम्बरजन[बोधिदः]म्लेच्छजनप्रतिबोधकः, देवः ॥८॥ संवरया रहितो दशशतसंवरजसंवरं प्राप्य । संवरजासनसंस्थो ध्यानमकार्षीत् श्रिये सोऽस्तु ॥९॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12