Book Title: Abhinandan Jin Stotram Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 3
________________ ऑगस्ट २०११ कुर्वती ? – बिभ्रती, कां? - तां वाणी, परं किम्भूताम् ? – 'स्वरद्वन्द्वविपर्ययाम्' स्वरयुगविपर्यातां वीणामित्यर्थः । पुनः किं कुर्वती ? - कुर्वती, कां प्रति ? - ज्ञाली बुधालीम्, किंभूतां ? - प्रपूर्वां, तां ज्ञाली कुर्वती, प्रज्ञालीमित्यर्थः ॥१॥ श्रहेमविमलसंवरममलं संवरधरं गुरुं नत्वा । श्रीसंवरनृपसंवर-नेत्री संवरभवं स्तौमि ॥२॥ अवचूर्णि:- श्रीहेम० अहं स्तौमि, कं प्रति ? - 'श्रीसंवरनृपः' संवराभिधानः श्रीअभिनन्दजिनदेवजनकः, तस्य 'संवरनेत्री' [कमलनयना सौन्दर्यवती इत्यर्थः] प्रिया, तस्याः संवरभवं [तनूद्भवं] पुत्रं, श्रीअभिनन्दनमित्यर्थः । किं कृत्वा ? - नत्वा, कं ? - 'गुरुम्, किंभूतम् ? - श्रीहेमविमलसंवरम् - श्रिया हेमवत् सुवर्णवत् विमलम् संवरं शरीरं यस्य सः, श्रीहेमविमलसूरे निजगुरोरभिधानमपि सूचितम्, पुनः किंभूतम् ? - संवरधरम् आश्रवत्यागरूपम् - अमलसंवरधरमित्यर्थः ॥२॥ वरसंवरज-समानं मुखसंवरजं विभाति यस्य विभोः । पदसंवरजं तस्य च करोम्यहं हृदयसंवरजे ॥३॥ अव० वरसं० - यस्य विभोः मुखं संवरजं [=जलजं] मुखकमलम् [वि] भाति । किंभूतम् ? - वरं प्रधानं संवरजं, संवरं जलं, तस्माज्जातं संवरजं कमलम्, तत्समानं सदृशमित्यर्थः, पदकमलं तस्य जिनस्य हृदयकमले करोमिइत्यर्थः ॥३॥ संवरवाहनिनादं संवरनिधिसंवराभशुद्धतरम् । संवरजसकलवदनम्, गीतं संवरजनयनाभिः ॥४॥ संवरजजनित-संवरशायिक-संवरदवाहनैः सेव्यम् । संवरजपुत्रपुत्री-संवरभवमन्दिरापूज्यम् ॥५॥ असंवरवराकारं संवरधिजशुद्धगुणगणागारम् । संवरजबन्धुसदृशप्रतापमीशं वरं वन्दे ॥६॥ [त्रिभिविशेषकम्] अव० - आर्यात्रयेण सम्बन्धः, ईशं स्वामिनं वरं प्रधानं वन्दे, किं भूतं? - संवरवाहो जलदः, तद्वन्निनादो शब्दो यस्य, तम् । संवरनिधिः [जलनिधिः] सागरस्तस्य संवरं जलं तदाभं तत्सदृशं शुद्धतरं निर्मलतरम् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12