Book Title: Abhinandan Jin Stotram Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 8
________________ ४६ अनुसन्धान-५६ पुरन्दरः । त्वं जीयात्, मदाम्बुरुहे मदकमले संवरजारिः कमलरिपुश्चन्द्रः, भव्याम्बुजे [जप्रकरे] भव्यजनकमलविकाशने संवरतस्करः जलतस्करः सूर्यः ।। श्रीसंवरेशकुलसंवरदाऽऽश्रये त्वम्, प्रोद्यत्प्रतापभरतिर्मलसंवरांशुः । जीयाज्जिनेश ! नतसंवरवाहवाह ! श्रीसंवरोद्भवमहाकरिसंवरेशः॥२१॥ __ अव०- श्रीसं० । श्रीसंवरभूपकुलसंवरदाश्रये-० घनाश्रये आकाशे त्वं संवरांशुः खरांशुः सूर्यः । नतसंवरवाहवाहः(वाह!) जलदवाहनः, पुरन्दरः । श्रीसंवरोद्भवः लक्ष्मीतनूद्भवः कन्दर्पः, [स एव महागजः] कन्दर्प महागजे शंवरेशो मृगेशः ॥२१॥ [वसन्ततिलकाच्छन्दः] विवाऽऽसंवरो धर्मवल्लीविताने, सुकासंवरः क्षान्तिनीरस्य नाथः । कुसं संवरापारनीरेशतीरो, जयासंवरद्वेषपूरेण मुक्तः ॥२२॥ श्रीसंवराकजिन संवरतुल्यकायश्चञ्चत्प्रतापभरसंवरजाकदेवः । तीर्थेशसंवरभवाङ्कमुखात् सुलब्धत्वत्सत्प्रभावगणसंवरभूधराज़ः ॥२३॥ अव०- विव् विगतो 'व्' इति व्यञ्जनो यस्मात् तत् विव् । चतुर्यु पदेषु 'व्' व्यञ्जनरहितत्वं विचार्यम् । एतावता आसारो वेगवान् [वती] वर्षा, धर्मवल्लीविताने समूहे । द्वितीयपदे कासारः सरोवरः क्षमाजलस्य नाथः प्रभुः। तृतीयपदे संसाररूपअपारनीरेशः सागरः, तस्य तीरस्तटः, चतुर्थपदे असारद्वेषपूरेण मुक्तः [चतुर्थेऽत्र पदे 'जय' इति पदस्य कोऽर्थः !? जयतात् इति] श्रीसंवर०- श्रीशंवराङ्कजिनो मृगाङ्कजिनः श्रीशान्तिः, तस्य शवरो वर्णः [सुवर्णवर्णः] तस्य तुल्य(ल्यो)देहो यस्य सः - श्रीशंवराङ्क० [तुल्यकायः] संवरजाङ्कः पद्माङ्कः पद्मप्रभदेवः, तत्समानः प्रतापो यस्य [सः], रक्तवर्णत्वात् [प्रतापस्य] । चञ्चत्प्र० संवरभवाङ्कः शङ्खाङ्कः देवः श्रीनेमिजिनः, तन्मुखेन लब्धो प्रभावभरो येन[सः] एवंविधः संवर-भूधरः-शङ्खधरो नारायणः, तेनार्यः पूज्यः ॥२३॥ अष्टोत्तराणि च सहस्रमितानि शंभो-लक्ष्मानि(णि) यस्य करसंवरजे विभान्ति । सच्छत्रसंवरज संवरजात यूप, प्रासाद संवरमुखानि स वः श्रियेऽस्तु ॥२४॥ अव०- अष्टोत्तराणि० यस्य करसंवरजे करकमले अष्टाधिकानि सहस्रमितानि लक्षणानि शोभन्ते, तानि कानि? - प्रधानछत्र-कमल-शङ्ख-यूपPage Navigation
1 ... 6 7 8 9 10 11 12