Book Title: Aatmatattvaprakash
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ द्वारा स्वदृष्टानां वस्तूनां तद्विरहेऽपि तद्भूतपूर्वदर्शनानुभवस्थापितसंस्कारसमुद्बोधनबलेन स्मरणं कर्तुं शक्नोति । इत्थमनुभवस्मरणयोः परस्परघनिष्ठसामानाधिकरण्यसम्बन्धबलेनापि चैतन्यरूप स्वतन्त्रमात्मतत्त्वमुपपद्यते । 'अहममुकं वस्तु दृष्ट्वा अस्पाक्षम् , ततोऽघासिषम्, ततश्चाररसम्' इत्येवम्भूतोऽनुभवो यदा-तदाऽस्माकं भवन् स्पष्टमवगमयति तस्य वस्तुनो द्रष्टा, स्पी, घाता, रसयिता च भिन्ना न सन्ति, किन्तु एक एवेति । कः खल्वेकः सः ? चक्षुः ? न, तस्य हि कार्य केवलं दर्शनमस्ति, न स्पर्शनादि । एवमेव स्पर्शनमात्रप्रवणं त्वगिन्द्रिय, घाणमात्रपरायणं घ्राणं, रसनमात्रनियतं रसनं च न। सर्वप्रतीताद् अस्मादनुभवाद् द्रष्टा, स्प्रष्टा, घ्राता, रसयिता च य एकोऽस्ति स इन्द्रियातिरिक्त आत्मा इति समवसीयते । आधुनिकवैज्ञानिकान्वेषणसिद्धेषु द्वानवतौ तत्त्वेषु नैकतममपि तत्त्वं स्वसंवेदनक्षमम् । अतः स्वसंवेदनात्मकं तत्वं तद्भिन्नमुपपद्यते, तस्य च सङ्गच्छमानं स्थेमानमाश्रित्य पुनर्जन्मापि। आत्मा वर्णरहित इति बाह्यभौतिकवस्तुवन्न भवति प्रत्यक्षः । एतावता स नास्तीति वक्तुमसाम्प्रतम् । परमाणवश्चर्मचक्षुषा न दृश्यन्ते, तथापि स्वीक्रियन्ते । स्थूलकार्योत्पत्तिः परमाणुसंघातमपेक्षते इत्यनुमया तत्सवमुपपद्यते । परमाणवो मूर्ता [रूपिणः-] अपि सन्तः प्रत्यक्षा न भवन्ति, तर्हि अमूर्तोऽरूप्यात्मा सुतरामप्रत्यक्षो भवेदेवास्मदादीनामित्यत्र किमाश्चर्यम् ? कार्यद्वारा परमाणवो यदि प्रत्यक्षायमाणा. शक्यन्ते वक्तुम् , तदा आत्मापि तस्य प्रत्यक्षेण ज्ञानरूपकार्येण शक्यते वक्तुं प्रत्यक्ष इति । यस्य धर्माः प्रत्यक्षाः स प्रत्यक्ष इति हि न्यायः । अत एव शब्दो नाकाशगुणो भवितुमर्हति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22