Book Title: Aatmatattvaprakash
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ शुक्तिका-गण्डूपद-जलूकादयः। यूका-मत्कुण-मत्कोटक-लिक्षा-पिपीलिकाकुन्थु-घृतेल्यादयस्त्वम्-जिह्वा-घ्राणतस्त्रीन्द्रियाः। त्वगू-जिह्वा-घ्राणनेत्रैश्चतुरिन्द्रियाः पतङ्ग-मक्षिका-भ्रमर-दंश-मशक-वृश्चिकादयः । त्वग-जिह्वा-घ्राण-नेत्र-श्रोत्राणि पञ्चेन्द्रियाणि धारयन्तः पञ्चेन्द्रियाः। ते चतुर्धा । मत्स्योरगभुजगपक्षिचतुष्पदास्तिर्यग्योनिजाः, सर्वे च मनुष्याः, स्वर्गभूमयो देवाः, नरकभूमयो नारकाश्च । ___ स्थूलेषु द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिया गृह्यन्ते । ते 'सा' अप्युच्यन्ते । इत्थं सूक्ष्म-स्थूलेषु [ स्थावर-त्रसेषु वा] जीवेषु समग्रसंसारिजीवराशयः समाविशन्ति । मोक्षः। __ अथ मुक्तजीवाः। ते मुक्ति प्राप्ताः। मुक्तिश्च समप्रकर्मावरणेभ्यस्तदुत्थशरीरादिभ्यश्चात्यन्तिकी मुक्तिः । सा च केवलशुद्धास्मावस्था । अत एव सा कैवल्यमप्युच्यते। न सन्ति यत्र देहेन्द्रियाणि वनिता-विभवाश्च तत्र किं सुखं भवेत् ? इत्यारेकमाणः कथं विस्मरति एते विषया [विषयवासना] एव दुःखमूलम् ? सा वासना खलु सन्तापस्वभावा । तस्यां सत्यां कुतः सुखम् ? तदूरहितप्रशमावस्थैव यथार्थसुखम् । सरसाशनपानसमास्वादनेऽनुभूयमान आनन्दोऽशनायानिबन्धनः। पूर्णोदराय न रोचते पीयूषदेशीयमप्यशन-पानम् । शीताति-परिहाराय गृह्यमाणमंशुकं निदाघे कष्टायमानं भवति । बह्वासित उत्तिष्ठासति, अटिटिषति च । चाचल्यमानश्चोपविविक्षति, विशिश्रमिषति च । आदावनुकूलायमाना कामक्रिया अन्ते प्रतिकूलायते । ईदशः खल्विमा वैषयिकस्थितयः । सुखसाधनत्वेन प्रतीयमाना भङ्गुरपदार्था भगुरशान्ति विहाय किमुपजनयन्ति सुखम् ? । पक्वः स्फोटो यदा स्फुटति तदा "हा...श" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22