Book Title: Aagam 28 V TANDUL VAICHAARIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२८-वृ)
प्रत
सूत्रांक [१४]
•
॥४९॥
दीप अनुक्रम [ ६४ ]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र -५ (मूलं + अवचूर्णि:)
मूलं [१४] / गाथा ||४९...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - तथाविधमलविकलाः, प्रमुदितो हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण अतिशयेन वर्त्तिता वर्तुला कटिर्येषां ते तथा, 'साहय'त्ति संहृतं संक्षिप्तं यत् सोगंदं त्रिकाष्ठिकामध्यं | मुशलं प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वधा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छरु'त्ति खङ्गादिमुष्टिः स च ( ततः ) एतद्द्वन्द्वस्तैः सदृशो यः, वरवज्रवद् वलितः क्षामो-वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्त्तक इव प्रदक्षिणावर्त्ती- दक्षिणावर्त्ती तरङ्गैरिव तरङ्गैः - तिसृभिर्वलिभिर्भङ्गुरा तरङ्गभङ्गरा रविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं विकासितं 'विकोसायंत 'त्ति विगतकोशं कृतं यत् पङ्कजं तद्वत् गम्भीरा विकटा च नाभियेषां ते तथा, 'उज्य०' ऋजुकानां - अवक्राणां समानानामायामादिप्रमाणतः 'सहिय'त्ति संहितानाम्-अविरलानां सुजातानां जात्यानां स्वाभाविकानां तनूनां - सूक्ष्माणां कृष्णानां - कालवर्णानां अथवा कृत्स्नानां - अभिन्नानां | स्निग्धानां कान्तानां आदेयानां - सौभाग्यवतां लडहानां - मनोज्ञानां सुकुमार मृदूनां - अत्यंत कोमलानां रमणीयानां च रोम्णांतनुरुहाणां राजि:- आवलिर्येषां ते तथा झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजाता - सुभूतौ पीनौ - उपचितौ कुक्षी - जठरदेशी येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपार्श्वाः-युक्तपार्श्वः सन्नतौ-अधोऽधो नमन्ती पार्श्व येषां ते सन्नतपार्श्वाः अत एव सुन्दरपार्श्वः सुजातपार्श्वाः पार्श्वगुणोपेतपार्श्वः इत्यर्थः मितौ - परिमिता मातृका - मात्रोपती एकार्थपदद्वययोगादतीव मात्रान्वितौ नोचितप्रमाणाद्धीनाधिको पीनौ - उपचितौ रतिदौ- रमणीयौ पाच येषां ते मितमातृकपीनरतिदपार्श्वा इत्यर्थः
Pre & Pomonal Use Only
~ 45~
Vejainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117