Book Title: Aagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१६)
प्रत
सूत्रांक
[१०० ]
+
गाथा:
दीप
अनुक्रम [१२९
-१९२]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १००] + गाथा: . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९],
मुनि दीपरत्नसागरेण संकलित..
सूर्यज्ञठिवृत्तिः ( मल० ) ॥२८॥
त्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपा देवास्ते किं उपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वमुपपन्ना ऊर्ध्वोपपन्नाः कल्पेषु सौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु सामान्येषूपपन्ना विमानोपपन्नाः चारोमण्डलगत्या परिभ्रमणं तमुपपन्ना - आश्रिताश्ञ्चारोपपन्नाः चारस्य यथोकरूपस्य स्थिति:- अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः, गतौ रतिः- आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिंमात्रमुक्तं, सम्प्रति साक्षाद् गतिं प्रश्नयति-'गतिसमापन्ना' गतियुक्ताः, एवं प्रश्ने कृते भगवानाह 'ता ते णं देवा' इत्यादि, ता इति पूर्ववत् ते चन्द्रादयो देवा नोर्ध्वोपपन्नाः नापि कल्पोपपन्नाः किन्तु विमानोपपन्नाः चारोपपन्नाः- चारसहिता नो चारस्थितिकाः, तथा स्वभा बतोऽपि गतिरतिकाः साक्षाद् गतियुक्ताश्च, ऊर्ध्वमुखीकृत कलम्बु का पुष्पसंस्थान संस्थितैर्योजन साहस्रिकैः - अनेक योजनसहस्र | प्रमाणैस्तापक्षेत्रैः साहस्रिकाभिः - अनेकसहस्रसङ्ख्याभिर्ब्राह्याभिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः - विकुर्वितनानारूपधारिणीभिः, महता रखेगेति योगः अहतानि - अक्षतानि अनघानीत्यर्थः यानि नाव्यानि गीतानि वादित्राणि च याश्च तयो चीणा ये च तलताला - हस्तताला यानि च त्रुटितानि-शेपाणि तूर्याणि ये च घनाघनाकारा ध्वनिसाधर्म्यात् पटुप्रवादिता - निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रवेण तथा स्वभावतो गतिरतिकैर्बाह्यपर्षदन्तर्गतैर्देवैवेंगेन गच्छत्सु विमानेषु उत्कृष्टितः - उत्कर्षवशेन ये मुध्यन्ते सिंहनादा यश्च क्रियते बोलो बोलो नाम मुखे हस्तं दस्वा महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह अच्छे-अतीव स्वच्छमतिनिर्मल जाम्बूनदर बहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षी
For Palata Use On
~ 567~
१९ प्राभृते चन्द्रवृक्षा दि चन्द्रा दीनामूर्ध्वो त्पन्नत्वादि
सू १००
|॥२८१॥
Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600