Book Title: Aagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१६)
प्रत
सूत्रांक
[ १०५
- १०६ ]
दीप
अनुक्रम
[१९६
-१९७]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १०५ - १०६ ]
. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [२०], मुनि दीपरत्नसागरेण संकलित..
महग्याभरणालंकियसरीरे इति अल्पैः स्तोकैर्महार्थैः महामूल्यैराभरणैरलङ्कृतशरीरो मनोज्ञं कलमोदनादि स्थालीपिठरी तस्यां पाको यस्य तत्तथा, अभ्यत्र हि पक्कं न सुपक्कं भवति तत इदं विशेषणं, शुद्धं भक्तदोषविवर्जितं, स्थालीपाकं च तत् शुद्धं च स्थालीपाकशुद्धं, 'अहारसर्वजणाडल' मिति अष्टादशभिलोकमतीतैर्व्यञ्जनैः - शालनकतकादिभिराकुलं अष्टादशव्यञ्जनाकुलं, अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुलं, शाकपार्थिवादिदर्शनाद् भेदशब्दलोपः, अष्टादश भेदा इमे-“सूओ १ यणो २ जवण्णं ३ तिष्णि य मंसाइ ६ गोरसो ७ जूसो ८। भक्ला ९ गुललावणिया १० मूलफला हरियगं १२ डागो १३ || १ || होइ रसालू य तहा १४ पाणे १५ पाणीय १६ पाणगं चैव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो || २ ||" इदं गाथाद्वयमपि सुगमं, नवरं मांसत्रयं जलजादिसत्कं यूपो मुद्गतण्डुलजीरककटुभाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपटिका गुडधाना वा मूलफलानीत्येकमेव पदं | इन्द्वसमासरूपं हरित कं- जीरकादि शाको वस्तुलादिभर्जिका रसालू- मज्जिका तलक्षणमिदम् - "दो घयपला महुपलं दहिस्त अद्धादयं मिरिय बीसा । दस खंडगुल पलाई एस रसालू निवइजोग्गो ॥१॥” इति, पानं-सुरादि पानीयं जलं पानकंद्राक्षापानकादि शाकः - तक्रसिद्धः, एवंभूतं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे, किंविशिष्टे इत्याह--अन्तः सचि त्रकर्म्मणि 'यही दूमियघट्टम'ति दूमिए - सुधापकधवलिते घृष्ठे पाषाणादिना उपरि घर्षिते ततो मृष्ठे-मसृणीकृते, तथा विचित्रेण विविध चित्रयुकेनोलोचेन चन्द्रोदयेन 'चिह्नियेति दीप्यमानं गृहमध्यभागे उपरितनं तलं यस्य तत्तथा तस्मिन् तथा बहुसमः प्रभूतसमः सुबिभकः सुविच्छित्तिको भूमिभागो यत्र तस्मिन् तथा मणिरसप्रणाशिता
For Parts Only
~ 590~
wor
Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600