Book Title: Aagam 15 PRAGNAPANA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३४२]
keeeeeeeee
दीप अनुक्रम [६१२]
पंचकिरिया' इति पदं, तदेवं सामान्यतो जीवपदे मारणान्तिकसमुद्घातश्चिन्तितः, सम्प्रति एनमेव चतुर्विंशति-IS दण्डकक्रमेण चिन्तयन् प्रथमतो नैरयिकातिदेशमाह-एव मित्यादि, एवं-सामान्यतो जीवपद इव नैरयिकेऽपि वक्तव्यं, नवरमयं विशेषः-सामान्यतो जीवपदे क्षेत्रमायामतो जघन्येनाङ्गुलासङ्ख्येयभागमात्रमुक्तं इह तु जघन्यतः सातिरेकं योजनसहस्रं, किमत्र कारणमिति चेत् ?, उच्यते, इह नैरयिकाः नरकादुवृत्ताः खभावत एव पञ्चेन्द्रिय-19॥ तिर्यक्षु मध्ये उत्पद्यन्ते मनुष्येषु वा नान्यत्र, सर्वजघन्यचिन्ता चात्र क्रियते, ततो यदा पातालकलशसमीपवर्ती | नरयिकः पातालकलशमध्ये द्वितीये तृतीय वा त्रिभागे मत्स्थतयोत्पद्यते तदा पातालकलशठिकरिकाया योजनसहस्रमानत्वात् यथोक्तं जघन्यमानं नातोऽपि न्यूनतरं कथंचनेति, उत्कर्षतोऽसङ्ख्ययानि योजनानि, तानि सप्तम-| पृथिवीगतनारकापेक्षया भावनीयानि, अत्रैवोपसंहारमाह-'एगदिसिं एवइए' इत्यादि, एकस्यां दिशि जघन्यत उत्कर्षतश्च एतावत्-अनन्तरोक्तप्रमाणं क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं, विग्रहगतिमधिकृत्य विशेषमाह-विग्गहे'सादि, विग्रहेणापूर्ण स्पृष्टं वा वक्तव्यमेकसामयिकेन द्विसामयिकेन त्रिसामयिकेन वा, नन्वेतत् सामान्यतो जीवपदेऽप्युक्तं तत्कोऽत्र विशेषस्तत आह-'नवरं चउसमइएण वा ण भन्नई' इति नवरमत्र सामान्यजीवपद इव चतुःसामयिकेनेति न भण्यते, नैरयिकाणामुत्कर्पतोऽपि विग्रहस्य त्रिसामयिकत्वात् , ते च त्रयः समया एवं भवन्ति-इह कश्चिन्नेरयिको वायव्यां दिशि वर्तमानो भरतक्षेत्रे पूर्वस्यां दिशि तिर्यपञ्चेन्द्रियतया मनुष्यतया
~1193~

Page Navigation
1 ... 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227