Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
(१३)
--------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रत
सूत्रांक
दीप
श्रीराजप्रश्नी
अशोकक्षमलयागिरी- इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याह-अवातीनपत्रा वातीनानि-बातोया उत्तिःपहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति? न प्रवलेन खरपरूषण वातेन ।
तेषां पत्राणि भूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधि-19 मू०३ ॥६॥ ऋत्य हेतमाह-'अदपत्ता' न विद्यते इतिः-गडरिकादिरूपा येषां तान्यतीतीनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्र
लाचाच्छिद्रपत्राः, 'निद्धयजरढपंदुपत्ता' इति निर्द्धतानि-अपनीतानि जरठानि पाण्डपत्राणि येभ्यस्ते निर्द्धतजरठपाण्ट्रपत्राः, किसक्तं भवति?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्द्धय भूमौ पातितानि भूमेरपि च पायो निर्द्धय निर्द्धयान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रभारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिमतेः निरन्तरविनिर्गतरिति भावः, नवतरुणपत्रपटवैस्तथा कोमलैः-मनोजैरुज्ज्वलैः-शुद्धैश्चलन्द्रिःईपत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लबविशेषैस्तथा सुकुमारैः पवालैः-पल्लवाड्रैः शोभितानि वराङ्कुराणि-वराडरोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमालपयालशोभितवरागुराग्रशिखराः, इहाकुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं सर्वकालं, षट्स्वपि ऋतुषु इत्यर्थः, 'कुसुमिताः' कुसुमानिपुष्पाणि सजातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निच्चं मालइया' (मउलिया) इति नित्यं-सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निचं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तबकिताः स्तवकभार
अनुक्रम
(३)
SAMEnirahini
unmurary.org
| अशोकवृक्षस्य वर्णनं
~ 15~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a88f53937a6e2b86405aad734edc3fc9946a6cd9054ff447326ef3a85043a1cb.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 304