Book Title: Aagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 307
________________ आगम (१०) प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४५] स्तरो-विस्तारो यस्य संवरबरपादपस्य स तथा, बहुविधः-अनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र संहवरपक्षे पहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापे क्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यक्त्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोष मूलं-कन्दस्याधोवर्ति यस्य स तथा, धृतिः-चित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेदिका-पार्श्वत: परिकररूपा यस्य स तथा, 'निग्गयतेलोकत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतं-त्रैलोक्यगतं भुवनत्रयव्यापकं अत एच विपुलं-विस्तीर्ण यद यश:-ख्यातिस्तदेव निचित्तो-निविडः पीना-स्थूल पीवरो-महान् सुजातः-सुनिपन्नः स्कन्धो यस्य स तथा, पञ्च महाव्रतान्येव विशाला-विस्तीर्णाः शाला:-शाखा यस्य स तथा, भावनैवअनित्यत्वादिचिन्ता वक-बल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादि शुभयोगाच-सद्यापारा: ज्ञानं च-बोधविशेषः तान्येव पल्लववरा-अकराः प्रवालप्रवरप्ररोहाः तान् धारयति यः स तथा, ततः पदद्वयस्य कर्मधारयः, बहवो ये गुणा-उत्तरगुणाः शुभफलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्तिः समाधानमेव वा| सुगन्धा-सद्गन्धो यत्र स तथा, 'अणण्हवफलो त्ति अनास्रवः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य | स तथा, पुनश्च-पुनरपि मोक्ष एव बरवीजसारो-मिञालक्षणः सारो यस्य स तथा, मन्दरगिरिशिखरे-मेरुधराधरशिखरे या चूलिका-चूडा सा तथा सा इव अस्य-प्रत्यक्षस्य मोक्षवरे-घरमोक्षे सकलकर्मक्षयलक्षणे ~306~

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335