________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२९]
दीप अनुक्रम [४५]
स्तरो-विस्तारो यस्य संवरबरपादपस्य स तथा, बहुविधः-अनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र संहवरपक्षे पहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापे
क्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यक्त्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोष मूलं-कन्दस्याधोवर्ति यस्य स तथा, धृतिः-चित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेदिका-पार्श्वत: परिकररूपा यस्य स तथा, 'निग्गयतेलोकत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतं-त्रैलोक्यगतं भुवनत्रयव्यापकं अत एच विपुलं-विस्तीर्ण यद यश:-ख्यातिस्तदेव निचित्तो-निविडः पीना-स्थूल पीवरो-महान् सुजातः-सुनिपन्नः स्कन्धो यस्य स तथा, पञ्च महाव्रतान्येव विशाला-विस्तीर्णाः शाला:-शाखा यस्य स तथा, भावनैवअनित्यत्वादिचिन्ता वक-बल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादि शुभयोगाच-सद्यापारा: ज्ञानं च-बोधविशेषः तान्येव पल्लववरा-अकराः प्रवालप्रवरप्ररोहाः तान् धारयति यः स तथा, ततः पदद्वयस्य कर्मधारयः, बहवो ये गुणा-उत्तरगुणाः शुभफलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्तिः समाधानमेव वा| सुगन्धा-सद्गन्धो यत्र स तथा, 'अणण्हवफलो त्ति अनास्रवः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य | स तथा, पुनश्च-पुनरपि मोक्ष एव बरवीजसारो-मिञालक्षणः सारो यस्य स तथा, मन्दरगिरिशिखरे-मेरुधराधरशिखरे या चूलिका-चूडा सा तथा सा इव अस्य-प्रत्यक्षस्य मोक्षवरे-घरमोक्षे सकलकर्मक्षयलक्षणे
~306~