________________
त्वम् , ' भवेत् '-स्यात् , ' द्वेषोऽपि '-वैरमपि स्यात् , 'रागोऽपि '-प्रीतिरपि स्यात् , ' दृशा'-नेत्रेण, 'वीक्षाऽपि 'दर्शनमपि स्यात, सृष्टौ संहारे च ब्रह्मणः सक्रियत्वमन्यावस्थायां च निष्क्रियत्वमतिमते सति अनेकस्वभाववशाद् ब्रह्म|णोऽनित्यत्वं सद्वेषत्वं दृशा वीक्षत्वं च प्राप्नोतीतिभावः, उक्तावस्थायां ब्रह्मणोऽनित्यत्वे पुनयुक्तिमाह-नित्यमित्यादिना 'ही 'ति निश्चये, नित्यं, 'तदेव'-वस्तु, 'अस्ति'-भवति, ' यत्'-वस्तु, 'एकरूपम् '-एकस्वभावम् , अस्ति तथा 'यत्र'-अस्मिन् , 'पंचावयवेन वाक्येन '-प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्यपंचावयवसंयुक्तेन वाक्येन, 'क्लप्ता'| समर्थिता, 'इयं '-प्रसिद्धा, 'व्याप्तिः'-साहचर्यनियमः, 'आकाशवत् '-आकाशेन तुल्या भवति, यदेकरूपं भवति, यत्र
च पंचावयववाक्यकृताऽऽकाशवद् व्याप्तिर्घटते तदेव नित्यं भवति अनेकस्वभावत्वदशायां तु न ब्रह्मकरूपं, न च तत्र पंचावयवकृताऽऽकाशवव्याप्तिर्घटते तस्मान्न तदुक्तावस्थायां नित्यं भवितुमर्हतीतिभावः ॥ ३०-३१ ॥
मूलम् कर्तुः स्फुटा सक्रियता मनःस्था, सृष्टौ युगान्ते च तदन्यभावे ।
स्यानिष्क्रियत्वं च तथैव राग-द्वेषौ जनानां सुखदुःखदृष्ट्या ॥ ३२॥ याक्रिया तादृशसौख्यदुःखे, चेदेवमूहो भवतामपि स्यात् ।
कर्तुंबलं किं किल तर्हि सिद्धे, स्वपापपुण्ये सुखदुःखहेतू ॥ ३३ ॥ __टीका-उक्तविषय एव पुनः पुष्टिमाह-कर्तुः स्फुटेत्यादिना 'सृष्टौ'-सर्जनकाले, 'च'-पुनः, 'युगान्ते'-युगानां परि। १. सृष्टिसंहाराभावे । २. ब्रह्मवादीति चेदुत्तरयति । ३. ब्रह्मवादिनामपि ।