SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार अष्टमोऽधिकारः मूलम्-चंदू वक्ष्यसि ब्रह्मगतः स्वभावो-ऽयमीदृशः सक्रियनिष्क्रियादिः। कर्तुत्वनेकैश्च तदा स्वभावै-रनित्यतापीह भवेत्कदाचित् द्वेषोऽपि रागोऽपि दृशापि वीक्षा, नित्यं तदेवास्ति यदेकरूपम्। आकाशवद् व्याप्तिरियं हि यत्र, वाक्येन पश्चावयवेन क्लुप्ता ॥३१॥ टीका-अत्र वादिशंकां परिहर्तुमाह-चेद् वक्ष्यसीत्यादि ' अयं'-पूर्वोक्तं, 'ईदृशः'- इत्थं प्रकारः, 'सक्रियनिष्कि- | यादिः'-सक्रियतानिष्कियतादियुक्तः, 'ब्रह्मगतः'- ब्रह्मस्थः, स्वभावोऽस्ति, 'चेद् '-यदि, त्वम् इत्थम् ' वक्ष्यसि'कथयिष्यसि, ' तदा'-तर्हि, ' कर्तुः '-कारकस्य, परब्रह्मण इत्यर्थः, 'अनेकैः -विविधैः स्वभावैः, अनेकस्वभाववशादित्यर्थः, 'तु' शब्दश्चरणपूत्ता, ' इह '-अस्मिन् ब्रह्मणीत्यर्थः, 'कदाचित् '-कस्मिश्चित्समये, 'अनित्यतापि'-अनित्य १. अप्रच्युतानुत्पन्नस्थिरेकस्वभावं नित्यमित्यनेकस्वभावस्य नित्यस्य ब्रह्मणः सक्रियनिःक्रियताद्यनेकस्वभावेनानित्यत्वप्रसङ्गः । २. यदि ब्रह्मणः सृष्टी संहारे च सक्रियतान्यत्रावस्थायां निःक्रियता स्यादिति भिन्नस्वभावता ततोऽनेकस्वभावतापत्ति तदा नित्यस्वभावपरित्यागादनित्यस्वभावतापि स्यात् प्रजासु सुखदुःखदर्शनाद् ब्रह्मणि रागद्वेषयोरपि द्वौ भिन्नस्वभावौ स्तस्तहिं यथा चर्मदृशा न दृश्यते ब्रह्मति स्वभावः तस्यापि परावृत्त्या कदाचिन्नेत्रेणापि ब्रह्मणो दर्शनं भवेदने कस्वभावत्वात् यदने कस्वभावं तन्नित्यं न स्यात् । ३. नित्यं तदेव यदेकस्वरूपं एकस्वभावमिति । न्यायस्तु एवम् । ब्रह्म नित्यं । एकस्वभावत्वात् । यदेकस्व. भावं तन्नित्यं, यथाकाशं । तथा चेदं । तस्मात्तथेति पञ्चावयववाक्येन या नित्यवस्तुनो व्याप्तिरस्ति सा ब्रह्मणि सक्रियनि:क्रियरक्तद्विष्टादिभिन्न भिन्नानेकस्वभावत्वेन न प्रसक्ता स्यादित्यादि स्वयमूह्यम् । ४. कृता । ॥४१ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy