SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ निर्द्वषता निष्क्रियता च तद्व-जितेन्द्रियत्वं च समानभावः । इत्यादि कार्य यदि तस्य प्रीति-रेष्वेव सिद्धं तदिहाक्रियत्वम् ॥२९॥ टीका-उक्तविषय एव दपणमाह-अंशास्तदीया इत्यादिना यदि 'अमी'-प्रसिद्धाः, 'जन्तवः'-प्राणिनः, 'तदीया अंशाः '-ब्रह्मणोंशाः, सन्ति तर्हि, ' ही 'ति निश्चये, 'तत् '-ब्रह्म, एव, 'तान् '-जंतून , ' कष्टं विनैव'-दुःखमंतरेणैव, 'स्वपार्श्व'-स्वसमीपं, 'नेट'-प्रापयित्, भविष्यति अन्यथा तस्य जगत्कर्तृत्वं न सिध्यतीति वक्तुकाम आह-यदीत्यादि यदि ' तस्य '-ब्रह्मणः, 'लब्ध्यै '-प्राप्तये, 'निकामम् '-निरन्तरं, 'नीरागता'-रागाभावः, 'निःस्पृहता'निरभिलाषित्वं, 'निषता'-द्वेषाभावः 'च' शब्दः समुच्चये, 'निष्क्रियता'-क्रियाभावः, 'तद्वत् '-तथैव, 'जितेन्द्रियत्वम् '-इन्द्रियदमनम् , 'च' शब्दः समुच्चये, 'समानभावः'-समत्वम् , 'इत्यादि'-एतत्प्रभृति, 'कार्य'-कृत्यम् , विधेयमस्ति, 'यदि'-चेत् , ' तस्य'-ब्रह्मणः, 'एष्वेव '-उक्तकार्येष्वेव, नीरागतादिष्वेवेतिभावः, 'प्रीतिः '-स्नेहोऽस्ति, 'तत् '-तर्हि, 'इह'-अस्मिन् ब्रह्मणि, 'अक्रियत्वं'-निष्क्रियत्वं, 'सिद्धं '-सिद्धिमुपगतम् , यदि ब्रह्मणो जगत्कर्तृत्वं, तर्हि सर्वे जंतवस्तदंशा जातास्ततस्तद् ब्रह्म स्वांशभूतांस्तांन जंतून स्वत एव कष्टं विनैव स्वसमीपे नेष्यति, तहिं तेषाम् तद्ध्यानेन किम् ? यदि चेत् तत्प्राप्त्यै नीरागतादिकृत्यमावश्यकं ब्रह्मणश्च नीरागतादिकृत्ये प्रीतिस्तर्हि निष्क्रियत्वद्वारा तस्य जगत्कतृत्वं न सिध्यतीतिभावः ॥ २८-२९ ॥ CAMERARMA%A5% १. विधेयं । २. ब्रह्मणः । ३. तत्तस्मात्कारणात् इह ब्रह्मणि ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy