________________
जैनतत्त्वसार
अष्टमोड धिकार
॥ ४० ॥
तत्कथनम् ' ममांबा'-मदीया माता, वंध्यास्ति, इति 'समम् '-एतेन तुल्यमस्ति, निष्क्रियं ब्रह्म मत्वा ये तजगत्कारकं कथयन्ति तत्तेषां कथनं मम माता वन्ध्याऽस्तीति कथनवत् सर्वथा मिथ्याऽस्तीतिभावः ॥ २४-२६ ॥ मूलम्-ये केऽपि विज्ञानभृतो भवन्ति, सर्वे च ते ब्रह्म विचिन्तयन्ति ।
ब्रह्मांशकास्ते यदि कोऽस्ति भेदः, कस्मै विचारः क्रियते तदेभिः ॥२७॥ टीका-ब्रह्मणो जगत्कर्तृत्वे पुनर्वृषणमाह-केपीत्यादिना केचित् , 'विज्ञानभृतः'-विशिष्टज्ञानवन्तो योगीश्वरा | इति यावत् , ' भवन्ति'-वर्तन्ते, ते सर्वे ब्रह्म 'विचिन्तयन्ति'-ध्यायन्ति, 'च' शब्दश्चरणपूत्तौं, यदि ते विज्ञानभृतः 'ब्रह्मांशकाः'-ब्रह्मणोंशाः सन्ति, 'तत् '-तर्हि, ब्रह्मणस्तेषाम् ' को भेदोऽस्ति'-किं भिन्नत्वं विद्यते ? 'एभिः'-ज्ञानभृद्भिः, ब्रह्मणः 'विचारः'-ध्यानं, 'कस्मै'-किमर्थम् , 'क्रियते'-विधीयते, जगतो ब्रह्मजन्यत्वे विज्ञानिनोऽपि ब्रह्मांशाः सन्ति, न चैषां ततः कश्चिद् मेदो भवति, तर्हि ते ब्रह्मविचारं किमर्थं कुर्वन्तीतिभावः ॥ २७ ॥ मूलम्-अंशास्तदीया यदि जन्तवोऽमी, स्वयं स्वपार्श्व हि तदेव नेर्तृ।
विनैव कष्टं यदि तस्य लब्ध्यै, नीरागता निःस्पृहता निकामम् ॥२८॥ १. विशिष्टज्ञानवन्तो योगीश्वराः । २. ते योगीश्वराः । ३. किमर्थ यदि योगिनः स्वयं ब्रह्मांशकास्तहि ब्रह्मांशानां अतःपरं लभ्यमवशिष्यते यद् ब्रह्म चिन्तयन्ति । ४. नेष्यति । ५. ब्रह्मणो लभये प्राप्त्यै ।
॥४०॥