SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार ॥ ४२ ॥ 4 समाप्तौ, 'कर्तुः ' - कारकस्य, ब्रह्मण इत्यर्थः, ' सक्रियता - सक्रियत्वम्, क्रियया सहितत्वमितिभावः, 'स्फुटा ' - व्यक्ता, कथंभूता सक्रियता ? ' मनःस्था ' - मनसि स्थिता, ' तदन्यभावे 'सृष्थ्यभावे युगान्ताभावे च सृष्टिसंहाराभाव इत्यर्थः, 'निष्क्रियत्वं - निष्क्रियता, क्रियाया रहितत्वमितिभावः, 'स्याद्'- भवेत्, 'तथैव चे 'ति समुच्चये, 'जनानां'- मनुष्याणां, 'सुखदुःखदृष्ट्या ' - सुखदुःखदर्शनात्, हेतौ तृतीया, ' रागद्वेषौ ' - स्नेहवैरे स्तः, अत्र वादिशंकां परिहर्तुमाह-याहक क्रियेत्यादि ' यादृक् '- यादृशी, 'क्रिया'- कर्म, भवति, ' तादृशसौख्यदुःखे ' - तादृगेव सुखं दुःखं च भवतः, ' चेत् '- यदि, 'एवम् ' -उक्तप्रकारः, ' भवतामपि ब्रह्मवादिनां, ' ऊहः - वितर्कः, 'स्याद्'- भवेत्, ' तर्हि ' - तदा, 'किले 'ति निश्वये, ' कर्तुः ' - कारकस्य, ब्रह्मण इत्यर्थः, ' बलं ' - शक्तिः, 'किम् ' - कीदृशी अस्ति ? एवं च सति, ' सुखदुःखहेतू ' - सुखदुःखयोः कारणे, 'स्वपापपुण्ये ' - आत्मनः पापं पुण्यं च, 'सिद्धे' - सिद्धिमुपगते, यादृशी क्रिया भवति तादृगेव सुखं दुःखं च भवतीति पक्षाभ्युपगमे सुखदुःखकारणे स्वपापपुण्य एव सिद्ध्यतः कर्तुर्बलं किमपि सिद्ध्यतीतिभावः ।। ३२-३३ ॥ मूलम् - हे ब्रह्मवादिन् ! यदि जन्तवोऽमी, ब्रह्मांशकास्तर्हि समे समाः स्युः । तदंशेसाम्याद् बहुभेदभिन्नाश्चेत्तर्हि कश्चिन्ननु तत्करोऽन्यः ॥ ३४ ॥ टीका - ब्रह्मणो जगत्कर्तुत्वे दूषणमाह - हे ब्रह्मवादिन्नित्यादिना ' हे ब्रह्मवादिन्निति' - ब्रह्म जगत्कर्तृवादिन्नित्यर्थः, 'यदि'चेत्, 'अमी ' - प्रसिद्धाः, 'जन्तवः ' - प्राणिनः, 'ब्रह्मांशका: 'ब्रह्मणोंशाः सन्ति, तर्हि ' समे' - सर्वे जन्तवः, 'समाः '१. ब्रह्मांशानाम् । २. जीवाः । ३ सुखदुःखादिभेदकरोऽन्यः पदार्थः । अष्टमोऽधिकारः ॥ ४२ 18
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy