SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तुल्याः । ' स्युः '-भवेयुः, अत्र वादिहृदयस्थां शंकां परिहर्तुमाह - तदंशेत्यादि ' चेत् ' - यदि, त्वम् एवं ब्रूयाः ' तदंशसाम्यात् '- ब्रह्मणोंशानाम् समानत्वात्, 'बहुभेदभिन्ना ' - बहुभिरनेकैर्भेदैः - प्रकारैर्भेदमुपगता जीवाः सन्ति, तर्हि, 'नन्विति वितर्के, ' तत्करः' - सुखदुःखादि मेदकारकः, ' कश्चित् ' - कोऽपि, ' अन्यः - अपरः स्यात् ॥ ३४ ॥ मूलम् - चेद् ब्रह्मभिन्ना भुवि जन्तवोऽमी, सुखस्य दुःखस्य च कर्तृ ब्रह्म । हेतोर्यतो दुःखसुखे विधत्ते, ब्रह्मा स एवाऽस्तु तयोर्विधाता निरञ्जनं नित्यममूर्त्तमक्रियं सङ्गीर्य्य ब्रह्माऽथ पुनश्च कारकम् । संहारकं रागरुडादिपात्रकं, परस्परध्वंसि वचोऽस्त्यदस्ततः ॥ ३५ ॥ ॥ ३६ ॥ ' टीका — उक्तविषयानभ्युपगमे च दोषमाह वेत्रह्मेत्यादिना ' चेत् ' - यदि त्वम् एवं ब्रूयाः ' अमी ' - प्रसिद्धाः, जन्तवः ' - प्राणिनः, ' भुवि '- संसारे, ' ब्रह्मभिन्नाः '-ब्रह्मणः पृथग्भूताः सन्तः, ' सुखस्य ' - सौख्यस्य, ' दुःखस्य - क्लेशस्य च, ' कर्तृ ' - कारकं ब्रह्म, अस्ति तर्हि ' यतः ' - यस्मात्, ' हेतोः ' - कारणात्, 'ब्रह्मा' ' दुःखसुखे ' -क्लेशसौख्ये, ' विधत्ते ' - करोति, ' स ब्रह्मा' ब्रह्म एव, ' तयोः ' - सुखदुःखहेत्वोः पुण्यपापयोरितिभावः, 'विधाता' - कर्त्ता, 'अस्तु'भवतु, इत्थं च सति दूषणमाह - निरञ्जनमित्यादिना 'ततः ' - तस्मात् कारणात् उक्तपक्षाभ्युपगमे सतीत्यर्थः, 'निरञ्जनम्' १. पुण्यपापयोः । २. द्वेष । ૐ
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy