SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जैनतत्वसार अष्टमोऽधिकार: ॥ ३८ ॥ मूलम् तदा विवेकोऽस्ति न ब्रह्मरूपे-ऽसौ वा शुकायेषु न योगवत्सु । कार्यं च धार्यं च यदादिपुंसो, निन्यं च हेयं च तदन्यपुंसाम् ॥१९॥ टीका-उक्तकार्ये ' वा '-अथवा, असौ'-विवेकः, 'योगवत्सु'-योगयुक्तेषु, 'शुकायेषु'-शुकादिमुनिषु, नास्ति, उक्तविषयमेव द्रढयति-योग्यम् अस्ति, एकश्चकारश्चरणपूर्ती, 'तत्'-जगत्, 'अन्यपुंसाम् '-अन्यजनानाम् , शुकादीनाम् योगिनामित्यर्थः, 'निन्छ'-निन्दनीयम्, 'च'-पुनः, 'हेयं '-त्याज्यं, एकश्चकारश्चरणपूत्तौं, कथं भवितुम् शक्नोति ? ॥ १९ ॥ मूलम्-तद्ब्रह्मजा सृष्टिरथापि कल्प-स्तज्जो वदद्भिस्त्विति ब्रह्म मूढं । विज्ञाप्यते किं न च तैस्तथैषां, वान्ताहृतेर्बह्मणि किं न दोषः ॥२०॥ टीका-युगान्ते जगतो ब्रह्मणि लीनत्वे दोषमाह-तद्ब्रह्मजेत्यादिना 'तत् '-तस्मात् कारणात् , ' सृष्टिः '-जगतो रचना, 'ब्रह्मजा'-ब्रह्मजनिता, 'अथापि '-अथ च, 'कल्पः '-प्रलयः, 'तजा'-ब्रह्मजातोऽस्ति, इत्येतद् वदद्भिः'कथयद्भिः, 'तैः'-ब्रह्मवादिभिः, 'तु' शब्दश्चरणपूत्तौं, किं ब्रह्म, ' मूढं '-मूर्ख, 'न विज्ञाप्यते'-न सूच्यते, 'तथे 'ति १. शुकादिभिः। २. आदिपुरुषस्य पुराणपुरुषस्यार्थात्परब्रह्मनामनि । ३. शुकादीनां योगिनाम् । ४. ब्रह्मवादिभिः । ५. परब्रह्मादिकर्तृवादिनां । ६. यत्तु सृष्टिकाले स्वस्मात्सर्व निष्काषितं तदा तु तत्सर्व वान्तमिव पुनश्च संहतिकाले सर्वस्यापि जगत आत्मनि संलीनीकरणादभक्षणमिवेति तेन सृष्टिकृता वान्ताहतिदोषोऽपि न निवारितः । AnnAnAtor
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy