________________
CACA
R
टीका-उक्तविषय एव पुष्टिमाह-यदत्रेत्यादिना 'अत्र'-अस्मिन् संसारे, 'किले 'ति निश्चये, 'अनित्यं 'विनाशि, वस्तु ' दृश्यं '-द्रष्टुम् योग्यमस्ति, 'तदिदम्'-पूर्वोक्तमिदम् वस्तु, ' ही 'ति निश्चये, यदि 'सृष्टौ '-सर्जनकाले, 'ब्रह्मणः'ब्रह्मणः सकाशात् , 'जातम् '-उत्पन्नमस्ति, ' तत्'-तर्हि, 'एतत् '-पूर्वोक्तम् , 'जुगुप्स्य'-घृणायोग्य वस्त. शीघ्रम-आश, केन'-कारणेन, 'विहाय'-त्यक्त्वा, 'योगिनः'-योगाभ्यासकर्तारो मुनय इत्यर्थः, 'विराग -वैराग्य, 'वृणते'-स्वीकुर्वन्ति, यदि सर्व ब्रह्मणो जातमभविष्यत्तर्हि मुनयस्तच्छीघ्रं विहाय वैराग्यं नाग्रहीष्यनितिभावः ॥ १७॥ __ मूलम् -यद् द्वेषरागादिविरूपमुज्झ्यं, जगत्स्वरूपं वरयोगवद्भिः।
' तदेव सर्व खलु ब्रह्मणैव, स्वस्मिन्कथं धार्यमहो युगान्ते ? ॥१८॥ टीका-सर्वस्य ब्रह्मणो जातत्वे सति युगान्ते तस्मिन्नेव तल्लयो न संभवतीत्याह-यद् द्वेषेत्यादिना 'यत्'-जगत्खरूपं, संसारस्वरूपं, 'वरयोगवद्भिः'-श्रेष्ठयोगयुक्तैर्जनैः, 'उज्झ्यं'-त्याज्यमस्ति, कथंभूतम् जगत्स्वरूपम् ! 'द्वेषरागादिविरूपम्'-रागद्वेषादिभिर्विकृतम् , 'खल्वि'ति निश्चये, तदेव सर्व ब्रह्मणैव, 'अहो'-इत्याश्चर्ये, 'युगान्ते'-युगस्य परिसमाप्तौ, 'स्वस्मिन् '-आत्मनि, 'कथं '-केन प्रकारेण, 'धार्यम् '-धतुं योग्यमस्ति, यद्रागद्वेषादिविकृतं ब्रह्मणो जातं जगद् योगिभिस्त्याज्यमस्ति तद्युगान्ते ब्रह्मणा स्वयमेव कथं धार्य भवितुम् शक्नोतीतिभावः ॥१८॥
RANASAGAR
A-ORGANESHA