________________
जैनतत्त्वसार
॥ ३७ ॥
वितर्केत्यादि-वितर्कस्य सम्पर्क:- संयोगो यत्रैवंभूतेन कुतर्केण कर्कशं कठोरं, पुनः कथंभूतम् । नानेत्यादि - नानाप्रकारकृतीनामनेकविधाकाराणां देवतानामर्चनं- पूजनं यत्र तत् पुनः कथंभूतम् ? वर्णाश्रमेत्यादि वर्णा ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनामाचीर्ण आचरितः पृथक् पृथक् वृषः- धर्मों यत्र तत् पुनः कथंभूतम् १ सद्रव्येत्यादि - सद्रव्यनराः- धनिजनाः, निर्द्रव्यनराःधनहीनजना इत्यादिभेदान् विभर्त्ति यत्तत् ॥ ८-१५ ॥
मूलम् - अनेन किं पल्लवितेन येन, यद् दृश्यते तद् विपरीतमेव ।
कार्ये पुनः कारणजा गुणाः स्यु-विद्वांस एवं निगदन्ति तज्ज्ञाः ।। १६ ।।
टीका - जगतो वैपरीत्यविषय एव पुष्टिमाह - अनेनेत्यादिना ' अनेन ' - एतेन, 'पल्लवितेन - विस्तरेण, 'किम् ' - प्रयोजनमस्ति ' येन ' - कारणेन, 'यद् '-वस्तु, ' दृश्यते ' - अवलोक्यते, जगति ' तद् ' - वस्तु, 'विपरीतमेव ' - विरुद्धमेव दृश्यते ब्रह्मणोऽकर्तृत्वे पुष्टिमाह- कार्य इत्यादिना पुनः ' तज्ज्ञाः 'तत्त्वज्ञानिनः, 'विद्वांसः - विपश्चितः, ' एव 'मिति, 'निगदन्ति'- कथयन्ति, 'कार्य' - कृत्ये, 'कारणजाः ' - कारणस्थाः, 'गुणाः '-धर्माः, ' स्युः ' - भवन्ति, कारणगुणाः कार्ये भवन्तीतिभावः, यदि जगतः कारणं ब्रह्म तर्हि जगति ब्रह्मगता गुणाः स्युर्न च सन्ति तेन न जगद् ब्रह्मकृतमित्याशयः ॥ १६ ॥
मूलम् - यंत्र दृश्यं किल वस्त्वनित्यं तद्ब्रह्मणो जातमिदं हि सृष्टौ । तद्योगिनः केन विहाय शीघ्रं, जुगुप्स्यमेतद् वृणते विरागम् ॥ १७ ॥ १. संसारे । २. सर्व वस्तु । ३. सर्गकाले । ४. वस्तु ।
अष्टमोऽधिकारः
॥ ३७ ॥