SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ शरीरम् , एतैः 'अङ्कितम् '-लक्षितम् , यद्वा अमेध्यदौर्गन्ध्याभ्याम् युक्तं यत् कलेवरं तेनांकितम्, पुनः कथंभूतम् ? 'दुष्कर्मनिर्मापणमैथुनाश्चितम् '-दुष्कर्मणां-पापकर्मणां निर्मापण-कारणम् एतादृशं यद् मैथुनं-सूरतं तेन अश्चितं-युक्तम् , 'समाश्रयदातुकृताङ्गिापुद्गलं'-समाश्रयन्त:-सम्मिलन्तो ये धातवः-सप्तधातवः, तैः कृतानि-विधत्तानि, अङ्गिपुद्गलानिप्राणिशरीराणि यस्मिन् तत, पुनः कथंभूतम् ? 'सनास्तिक-नास्तिकैः सहितं, पुनः कथंभूतम् ? 'सर्वमुनीशनिंदितम् - सर्वैमुनिराजैगर्हितम् , यदि ब्रह्मणा सृष्टिः कृता तर्हि मुनीशा अपि तेनैव कृतास्तदा ते परब्रह्मचिन्तकाः सन्तः सकलं संसारस्वरूप परब्रह्मकृतमसारं ज्ञात्वा कथं निन्दन्तीति विचार्यमित्यर्थः, पुनः कथंभूतम् ? कियदित्यादि कियन्तः स्वकीयाह्वयेन स्वनाम्ना बद्धवैरा यस्मिस्तत् यस्मिन्नेके ब्रह्मनाम्नि बद्धवैराः सन्तीत्यर्थः, पुनः कथंभूतम् ? कियदित्यादि कियत् स्वपूजायां प्रवणं संलग्नमंगिजातं प्राणिसमूहो यस्मिस्तत् यस्मिन्ननेके ब्रह्मपूजाप्रवणाः प्राणिगणाः सन्तीत्यर्थः, पुनः कथंभूतम् ? नानात्मेत्यादि नानात्मानः'-नानाप्रकाराः, 'हिन्दका'-हिन्दूपदवाच्याः, 'तुरुष्काः'-यवना लोका यस्मिस्तत्, पुनः कथंभूतम् ? कियदित्यादि कियन्तः परब्रह्मणो निरासे खण्डने हासे च यस्मिंस्तत् यस्मिन्ननेके परब्रह्मखण्डनकरिस्तदुपहासकरिश्च सन्तीत्यर्थः, पुनः कथंभूतम् ? 'षड्दर्शनाचारविचारडम्बरं'-पड्दर्शनानां सांख्यादीनां य आचार:व्यवहारस्तस्य डंबरः-संभारो यस्मिस्तत् , पुनः कथंभूतम् ? प्रचण्डेत्यादि 'प्रचण्डा:'-प्रबलाः, ये 'पाखंडिन:'-सर्वलिंगिनस्त एव घटास्तैर्विडम्बनं-गर्दा यस्मिस्तत् , पुनः कथंभूतम् ? सत्पुण्येत्यादि-सत्पुण्येन पापेन चोत्थितमुत्पन्नं यत्कर्म तस्य भोगस्तस्य दायकम् , पुनः कथंभूतम् ? स्वर्गापवर्गेत्यादि 'स्वर्गापवर्गादीनां -भवान्तराणामुदयो यस्मिस्तत्, पुनः कथंभूतम् ? ACROCHAKARE
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy