________________
समाश्रयद्धातुकृताङ्गिपुद्गलं, सनास्तिकं सर्वमुनीशनिन्दितम् ॥१२॥ किर्यत्स्वकीयाह्वयवद्धवैरं, कियत्स्वपूजाप्रवणाङ्गिजातम् । नानात्महिन्दूकतुरुष्कलोकं, कियत्परब्रह्मनिरासहासम् षड्दर्शनाचारविचारडम्बरं, प्रचण्डपाषण्डघटाविडम्बनम् । सत्पुण्यपापोत्थितकर्मभोगदं, स्वर्गापवर्गादिभवान्तरोदयम् ॥१४॥ वितर्कसम्पर्ककुतर्ककर्कशं, नानाप्रकाराकृतिदेवतार्चनम् । वर्णाश्रमांचीर्णपृथक्पृथग्वृषं, सद्रव्यनिद्रव्यनरादिभेदभृत् ॥१५॥
॥सप्तभिः कुलकम् ।। १. शरीरं । २. नास्तिका हि कर्तारं न मन्यन्ते तर्हि सृष्टिकर्तुस्तद् ज्ञानं नासीद्यदमी ममैव विलोपका भविष्यन्ति न चात्र पितापुत्रविचारो वाच्यः पिता तु इन्द्रियपरवशो ज्ञानी अनायतितो यथातथा पुत्रकर्मणि प्रवर्ततां परब्रह्म |तु निर्विकारं सज्ञानं चेति स्वसृष्टिनिह्नवान् कथं नाम करोतीति अथ च तस्य रागद्वेषौ न स्तस्तहि सृष्टिसंहारौ कथं करोतीति | विचार्यमाणं विशीर्यते इति सम्यग्ध्येयम् । ३. यदि ब्रह्मणा सृष्टिः कृता तहि मुनीशा योगिनोऽपि ब्रह्मणैव कृतास्तहि ते परब्रह्म चिन्तकाः सन्तः सकलं संसारस्वरूपं परब्रह्मकृतं असारं ज्ञात्वा कथं निन्दयन्तीति विचार्य्यम् । ४. ब्रह्म । ५. ब्रह्म । ६. चत्वारः । ७. चत्वारः । ८ धर्म ।