________________
जैनतत्त्वसार
अष्टमोऽधिकारः
एव'-प्रेरणकारकोऽपि एव शब्दोऽपि शब्दार्थः, 'नास्ति'-न विद्यते, अत्र हेतुमाह-यदित्यादिना ' यत् '-यस्मात् कारणात् , 'सकलस्य '-सर्वस्य, 'वस्तुनः'-पदार्थस्य कालादेरित्यर्थः, ' स्वस्मिन् '-आत्मनि, 'गतत्वात् '-स्थितत्वात् , ये परब्रह्म कर्तृ वदन्ति तन्मते सर्वाणि कालस्वभावादीनि वस्तूनि ब्रह्मगतान्येव सन्ति, तथा च सति तस्माद् ब्रह्मणः कालादिः क्वचिदन्यः पदार्थ एव नास्ति यो ब्रह्म सर्जने संहारे च प्रेरयेदितिभावः ॥ ८ ॥ मूलम्-कुर्याद्यदीदं जगतां हि सर्जनं, तदेदृशं केन करोति विष्टपम् ।
जन्मात्ययव्याधिकषायकैतव-कन्दर्पदौर्गत्यभियाभिराकुलम् ॥९॥ परस्परद्रोहिविपक्षलक्षितं, दुःश्वापदव्यालसरीसृपालिकम् । साखेटिकैमैनिकसौनिकैश्चितं, दुश्चोरजारादिविकारपीडितम् ॥१०॥ कस्तूरिकाचामरदन्तचर्मणे, सारङ्गधेनुद्विपचित्रकान्तकम् । दुर्मारिदुर्भिक्षकविड्वरादिकं, दुर्जातिदुर्योनिकुकीटपूरितम्
अमेध्यदौर्गन्ध्यकलेवराङ्कितं, दुष्कर्मनिर्मापणमैथुनाश्चितम् । ____१. यदीदमपि ब्रह्म निःक्रियनिरञ्जनाद्युक्तानेकविशेषणविशिष्ट सृष्टिं कुर्यादिति भवतां विधिरस्ति तर्हि भवतां ब्रह्म स्वस्वरूपाद्विपरीतां सृष्टिं कथं करोतीत्युदाहरति सप्तवृत्तः । २. कारणेन । ३. व्याघ्र । ४. दुष्टगज । ५. वींछी । ६. नाशकम् ।
॥३५॥