________________
युक्तम् , पुनः कथंभूतम् ? 'परमेष्ठि'-परमपदे स्थितम् , पुनः कथंभूतम् ? ' अनन्तकम् '-अन्तरहितम् , पुनः कथंभूतं ? | 'निर्भत्सरं '-मात्सर्यदोषरहितम् , पुनः कथंभूतं ? 'रोधविरोधवर्जितम् '-रोधो-अनुरोधो विरोधो-विद्वेषस्ताभ्यां वर्जितम्रहितम् रागद्वेषविहीनमितिभावः, पुनः कथंभूतम् ? 'ध्यानप्रभावोत्थितभक्तनिवृति '-ध्यानस्य प्रभावेन उत्थिता-उत्पन्ना भक्तानां निवृतिः सुखं यस्मात् तत् ध्यानप्रभावेन भक्तसुखोत्पादकमितिभावः, पुनः कथंभृतं ? 'निरंजनानाकृति '-निरंजनम्अनाकारश्वेत्यर्थः, पुनश्च कथंभूतम् ? ' शाश्वतस्थिति '-शाश्वतं निरन्तरं स्थितिर्यस्य तत्तथा ॥ ३-७॥
परब्रह्मणः सृष्टिरचनां तत्रैव प्रलयानुपपत्तिं च त्रिंशच्श्लोकैराहमूलम्-एवंविधं ब्रह्म तदेव तत्कथं, हेतुर्भवेत्सृष्टिकुलालकर्मणि ।
- प्रयोजको ब्रह्मण एव नास्ति य-स्वस्मिन्गतत्वात्सकलस्य वस्तुनः ॥ ८॥ ____टीका-इदानी ब्रह्मणः सृष्टिकारणत्वं परिहर्तुमाह-एवंविधमित्यादि ब्रह्म' 'एवं विधमेव '-उक्तप्रकारकमेवास्ति, है|'तत् '-तस्मात् कारणात् , तद् ‘ब्रह्म'-सृष्टिः, ' कुलालकमणि'-सर्जनरूपं यत्कुलालकर्म कुम्भकारक्रिया, तत्र ' हेतुः'
कारण, 'कथं'-केन प्रकारेण, 'भवेत् '-भवितुं शक्नुयात्, उक्तप्रकारकं ब्रह्मसृष्टिरूपकुलालकमणि हेतुर्न भवितुं शक्नोतीतिभावः, यदि स्वयं सर्जनं न करोति तन्यप्रेरितं कुर्यादित्याशंकामपि परिहर्तुमाह-प्रयोजक इत्यादि 'ब्रह्मणः''प्रयोजक
१. सर्जनरूपं यकुलालकर्म कुम्भकारक्रिया तत्र । २. ये तु परब्रह्म कर्तृ वदन्ति तेषां मते सर्वाणि कालस्वभावनियत्यादीनि अपि ब्रह्मगतान्यव सन्ति, तस्य ब्रह्मणः कालादिः कश्चिदन्यः पदार्थो नास्ति यो ब्रह्मप्रति सर्जनसंहारे च प्रेरयति ।