SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जैन I अष्टमोऽधिकारः तत्त्वसार RECAKACSANSKARAN 'सत्केवलज्ञानविशिष्टदृष्टयः'-सत् श्रेष्ठं यत् केवलज्ञानं तेन विशिष्टा युक्ता दृष्टिदर्शनं येषां ते तथा, पुनः 'नीरागिणः'-रागरहिताः, पुनश्च 'अन्योपकृतौ परायणाः'-परोपकारे तत्पराः सन्ति, उक्तगुणविशिष्टा ये सर्वज्ञाः सन्तीतिभावः, ते तु 'ईदृशं'-वक्ष्यमाणस्वरूपम् , ब्रह्म परं 'न्यवेदयन् '-कथितवन्तः, किं स्वरूपमित्याह-निर्विक्रियमित्यादि निर्विक्रिय 'विकाररहितम् , पुनः कथंभूतं ? ' निष्क्रिय '-क्रियारहितम् , पुनः कथंभृतम् ? 'अप्रतिक्रियम्'-प्रतीकाररहितम् , दुःखाद्यभिभूतत्वे सति यदर्थं प्रतीकारस्यावश्यकता न भवतीत्यर्थः, पुनः कथंभूतं ? 'ज्योतिर्मयं-प्रकाशस्वरूपम् , पुनः कथंभूतं? 'चिन्मयं '-ज्ञानस्वरूपम् , पुनः कथंभूतम् ? 'ईश्वराभिधम्'-ईश्वरनामकम् , पुनः कथंभूतम् ? 'आनंदसांद्रम् - आनन्दः सान्द्रो निरन्तरं यस्य तत् आनंदविशिष्टमितिभावः, पुनः कथंभूतं ? 'जगता निषेवितम्'-जगवर्तिप्राणिभिः सेवितम् , पुनः कथंभृतं ? ' निर्मायनिर्मोहम्'-मायया रहितं, मोहेन च रहितम् , पुनः कथंभूतं ? ' अहंकृतिच्युतम् '-अहंकृत्या अहंकाराच्युतं पृथग्भूतम् अहंकाररहितमितिभावः, पुनः कथंभूतं ? 'सम्यनिराशंसम् '-अतिशयेन निःस्पृहम् , पुनः कथंभूतम् ? ' अनीहितार्चनम् '-अनीहितमनभिलषितमर्चनं-पूजनं येन तत् तथा पूजाभिलाषरहितमितिभावः, पुनः कथंभूतं ? ' महोदयं '-महानुदयो यस्य तत्तथा, पुनः कथंभूतं ? ' निर्गुणम् '-गुणैः रहितम् , सत्त्वादिगुणत्रयविरहितमितिभावः, पुनः कथंभूतम् ? ' अप्रमेयकम् '-प्रमातुमयोग्यम् अज्ञेयमित्यर्थः, पुनः कथंभूतं ? 'पुनर्भवप्रोज्झितम् 'पुनर्भवेन-पुनर्जन्मना प्रोज्झितं-रहितम् , पुनर्भवप्रोज्झितत्वे हेतुमाह-यतोऽक्षरमिति ' यतः'-कारणात् , ' अक्षरम् '-अविनाशि वर्तते, अतः पुनर्भवप्रोज्झितमस्तीतिभावः, पुनः कथंभृतं ? 'विभु'-व्यापकम् , पुनः कथंभूतं ? 'प्रभावत् '-कान्ति
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy