SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ निर्मायनिर्मोहमहंकृतिच्युतं, सम्यग्निराशंसमनीहितार्चनम् । महोदयं निर्गुणमप्रमेयक, पुनर्भवप्रोज्झितमक्षरं यतः विभु प्रभावत्परमेष्ठ्यनन्तकं, निर्मत्सरं रोधविरोधवर्जितम् । ध्यानप्रभावोत्थितभक्तनिवृति, निरञ्जनानोकृति शाश्वतस्थिति ॥७॥ टीका-उक्तविषयस्य काठिन्य दर्शयितुमाह-ये योगिन इत्यादि ये योगिनः'-योगाभ्यासकर्तारः सन्ति, कथंभूता योगिनः ? 'निर्मलदिव्यदृष्टयः'-निर्मला-मलरहिता दिव्या-श्रेष्ठा दृष्टियेषां ते तथा, यद्वा मलस्याभावो निर्मलं तेन दिव्या दृष्टिर्येषां ते तथेति बोध्यम् , पुनः कथंभूताः ? 'चराचराचारविवेकचिन्तकाः'-चराचरस्य-स्थावरजंगमस्य य आचारो व्यवहारस्तस्य विवेको-विचारो भेदो वा तस्य चिन्तकाः विचारकर्तारः स्थावरजंगमरूपसंसारव्यवहारभेदचिन्तका इतिभावः, पुनश्च कथंभूताः? 'लब्धाष्टसिद्विप्रथनाः'-लब्धाः प्राप्ता या अशसिद्धयोऽणिमादयस्ताभिः प्रथन-प्रख्यातियेषां तथा प्राप्ताभिरष्टभिः सिद्धिभिर्विख्याता इत्यर्थः, 'ही' ति निश्चये, 'ते'-योगिनोऽपि, 'अहो'-इति विस्मये, 'एतस्य'-ब्रह्मणः स्वरूपम् , 'विचारयन्तः'-चिन्तयंतः यद्यपि 'हि' शब्दश्चरणपूत्ता, 'पारम्'-अन्तं, 'न इधति'-न गच्छन्ति, 'तथाऽपीति'-उक्तविधयोगिनां परब्रह्मस्वरूपांतगमनेऽपीत्यर्थः, 'ये लोकविलोकनक्षमा'-चतुर्दशरज्वात्मकलोकदर्शनसमर्थाः, पुनः 'सर्वार्थयाथार्थ्यसमर्थनार्थनाः '-सर्वे येऽर्थाः-पदार्थास्तेषां यद्याथार्थ्य-सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं-प्रार्थनं येभ्यस्ते तथा, पुनः १. निःस्पृहं । २. अवाञ्छितपूजनं । ३. सत्त्वादिगुणत्रयरहितं । ४. व्यापकं । ५. अनाकारं ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy