SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार अष्टमोऽधिकारः माकर्ण्यतामितिभावः, “स्वरूपम् ' 'निवेदितुं'-कथयितुं, 'मनीषिणामपि '-विचारशीलानामेव, ' अपि' शब्द एवकारार्थः, 'वाचः'-गिरः, ' स्फुरन्ति '-स्फुरणं कुर्वन्ति, कथंभूतानां मनीषिणाम् ? इत्याह-सिद्धान्तेत्यादि । सिद्धान्तवेदान्तविचारवेदिनाम् '-सिद्धान्तस्य यो वेदो-ज्ञानं तस्यांतः सारस्तस्य यो विचार:-परामर्शस्तद्वेदिनां-तद् ज्ञातृणाम् , सिद्धान्तज्ञानतत्त्वविचारज्ञातृणामितिभावः, 'इह '-अस्मिन् विषये, परब्रह्मस्वरूपवर्णन इत्यर्थः, 'चर्मचक्षुषां'-चर्मदृष्टीना, न वाचः स्फुरन्ति ॥२॥ मूलम्-ये योगिनो निर्मलदिव्यदृष्टय-श्चराचराचारविवेकचिन्तकाः। लब्धाष्टसिद्धिप्रथना हि तेऽप्यहो !, विचारयन्तो न हि पारमिप्रति ॥३॥ तथापि ये लोकविलोकनक्षमाः, सर्वार्थयाार्थ्यसमर्थनार्थनाः । सत्केवलज्ञानविशिष्टदृष्टयो, नीरागिणोऽन्योपकृतौ परायणाः ॥४॥ ते त्वीदृशं ब्रह्म परं न्यवेदयन् , निर्विक्रियं निष्क्रियमप्रतिक्रियम् । ज्योतिर्मयं चिन्मयमीश्वराभिध-मानंदसान्द्रं जगतां निषेवितम् ॥५॥ १. योगाभ्यासकर्तारः। २. जङ्गमस्थावर । ३. एतस्य ब्रह्मणः । ४. चतुर्दशरज्वात्मकलोकदर्शनसमर्थाः । ५. सर्वे येऽर्थाः पदार्था द्रव्याणीति यावत् तेषां यत् याथायें सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं प्रार्थनं येभ्यस्ते। ॥३३॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy