________________
CA%AIRCRAKASARAKAR
॥ अथ अष्टमोऽधिकारः॥
परब्रह्मणः स्वरूपं श्लोकसप्तकेनाहमूलम्-स्वामिन् ! परब्रह्म किमुच्यते तत्, लीनं जगद्यत्र भवेद्युगान्ते।
तदेवं हेतुः पुनरेव सृष्टेः, स्यादीदृशं केन गुणेन वाच्यम् ? ॥१॥ टीका-इदानीं ब्रह्मविषये प्रश्नयति स्वामिन्नित्यादिना ' स्वामिन् ! ' हे प्रभो !, ब्रह्मवादिनो जैन प्रत्युक्तिः, 'यत्र'यस्मिन् , 'युगान्ते '-युगानामवसाने, 'जगत् '-संसारः, 'लीनं '-लयप्राप्तं, ' भवेत् '-भवति, तत् परब्रह्म'-उत्तम ब्रह्म, 'किमुच्यते'-किं कथ्यते ?, तदेवेत्यादि एक 'एव' शब्दश्चरणपूत्तौं, पुनः, 'तदेव'-ब्रह्मैव, 'सृष्टेः'-सर्जनकार्यस्य, "हेतुः'-कारणं, 'स्यात् '-भवेत् , ' ईदृशम्'-उक्तप्रकारकम् बह्म, 'केन गुणेन ' 'वाच्यम्'-कथनीयमस्ति ॥ १॥ मूलम्-निशम्यतामार्य ! मनीषिणामपि, सिद्धान्तवेदान्तविचारवेदिनाम् ।
स्वरूपमेतस्य निवेदितुं यतो, वाचः स्फुरन्तीह न चर्मचक्षुषाम् ॥२॥ टीका-अस्योत्तरमाह-निशम्यतामित्यादिना 'आर्य!' हे श्रेष्ठ!, 'निशम्यताम् '-श्रूयताम् , उक्तप्रश्नस्य प्रतिवचन१. अथ ब्रह्मवादी जैनं प्रति ब्रह्मस्वरूपं पृच्छति । २. पुनस्तदेव सृष्टेः सर्जनकार्यस्य कारण स्यादित्युच्यते । ३. ब्रह्मणः ।