________________
जैनतत्त्वसार
॥ ३२ ॥
एव, 'वहनस्ति ' - प्रवहनं कुर्वन् विद्यते, फलितमाह - शास्त्रेष्वित्यादिना 'शास्त्रेषु' ' अधीतेषु ' - पठितेषु सत्सु, यथा ' शास्त्रनाशः '– शास्त्रस्यापायः, न भवति ' तथैव ' - तेनैव प्रकारेण, ' सिद्धेषु' सिद्धिं गतेषु, सर्वभव्यजीवेषु, ' भवस्य ' - संसारस्य, ' अंतः ' - नाशो न भवति । सुबुद्धिमतो जनस्य सर्वशास्त्रपठनेऽपि यथा शास्त्राक्षरैरस्य हृदयं पूर्ण न भवति तथैव सततं मुक्तिमार्गवनेऽपि मुक्ति: पूर्णा न भवति, शास्त्राक्षरगमनेऽपि यथा शास्त्रस्य नाशो न भवति तथैव भव्यजीवगमनेऽपि संसारस्य नाशो न भवतीत्यर्थः ॥ ८-११ ॥
मूलम् — दृष्टान्तदान्तिक भावनेयं, विज्ञैः स्वयं चेतसि चिन्तनीया ।
एवं केsभिनिषन्ति भूयो, दृष्टान्तसङ्घा अपरेऽपि योज्याः ॥ १२ ॥ टीका - उपसंहरति दृष्टान्तेत्यादिना ' इयं ' - पूर्वोक्ता, दृष्टान्तदाष्टन्तिकभावना ' - दृष्टान्तदान्तिक संबंधिनी विचारणा, ' विज्ञैः '-पंडितैर्जनैः, ' चेतसि ' - चित्ते, ' स्वयं ' स्वत एव, 'चिंतनीया '- विचारणीया, ' ही 'ति निश्वये, एवम् ' -उक्तप्रकारेण, 'भूयः ' - पुनः, ' अनेके ' - बहवः, ' अपरेऽपि ' - अन्येऽपि दृष्टान्तसङ्घाः '- दृष्टान्तसमूहाः, ' अभिनिषन्ति - विद्यन्ते, ' योज्याः ' -उक्तविषये घटनीयाः ।। १२ ।।
संसारशून्यता - मोक्षाभरणतादृष्टान्तोक्तिलेशः सप्तमोऽधिकारः समाप्तः
सप्तमोsधिकारः
॥ ३२ ॥