SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ टीका - दृष्टान्तरमभिधातुकाम आह-अन्योऽपीत्यादि ' इह ' - अस्मिन् विषये, 'अन्योऽपि - द्वितीयोऽपि, ' दृष्टान्तः - निदर्शनं, 'उच्यते ' - कथ्यते मया, 'अयम् ' एप दृष्टान्तः, 'विदितप्रमाणैः - विदितानि - ज्ञातानि प्रमाणानि सम्यग् ज्ञानानि येषां ते तथा तैः प्रमाणज्ञातृभिरितिभावः, ' आकर्णनीयः - श्रोतव्यः, दृष्टान्तमेव दर्शयति-यथा हीत्यादिना ' ही 'ति निश्चये चरणपूर्ती वा, 'यथा' येन प्रकारेण, 'प्रतिभान्वितः सन् - अतिशयवत्या धिया युक्तः सन्, 'कश्चित् 'कोsपि जन:, 'आजन्ममृत्यृद्भवं '- जन्मन आरभ्य मरणं यावत्, 'आत्मशक्त्या 'स्वसामर्थ्यन, हिन्दुकेत्यादि 'हिन्दूकानां'हिन्दूपदवाच्यानां, ' पदर्शनानि ' - पटूशास्त्राणि - न्यायवैशेषिक सांख्ययोगपूर्व मीमांसोत्तरमीमांसाख्यानि, 'पारशीकानां - यवनानां शास्त्राणि, तथा 'त्रिलोक्या: ' - त्रिभुवनस्य, 'सर्वाणि '- निखिलानि शास्त्राणि, 'पठन्' - अधीयानः स्यात्, 'इह'अस्मिन् शास्त्राध्ययने, ' असंख्यम् ' - अगणनीयम् ' आयु: '- जीवनकालं, ' वहन्नपि ' - व्यतीतं कुर्वन्नपि स्यात्, तथा 'अस्य ' - शास्त्राध्ययनकर्तुः, 'हृत् ' - हृदयं, 'कदाचित् ' - कदापि ' शास्त्राक्षरैः '-शास्त्रवणैः, 'पूर्ण'-भृतं, ' न भवेत् 'न भवति, अप्यथेति एतदनंतरं उक्तदृष्टान्तकथनानंतरमित्यर्थः, दार्शन्ते ' योजना ' -संघटनम् ' एवं 'वक्ष्यमाणप्रका रेण अस्ति, दाष्टन्ति योजनामेवाह-यथैवेत्यादिना 'एव' शब्दोऽवधारणे, 'यथा'- येन प्रकारेण, शास्त्राणि सन्ति ' तथा 'तेनैव प्रकारेण, ' अयं ' प्रस्तूयमानः, ' भवः' - संसारोऽस्ति, 'विमुक्ताः - सिद्धा:, ' शास्त्राक्षरवत् ' - शास्त्राक्षरसमानाः, ' भवन्ति ' - विद्यते, ' ही 'ति निश्वये, 'सिद्धिः 'मुक्तिः, 'सुबुद्धिवक्षोवत्' - सुष्ठु बुद्धियुक्तजनस्य हृदयमित्र, अस्ति, 'मोक्षमार्गः '-मुक्तेः पंथाः, 'निरन्तराय: ' अंतरायरहितः, निर्विघ्न इतिभावः, 'अश्रान्ततत्पाठवदेव - निरन्तरतञ्जनपाठसमान
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy