SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार सप्तमोधिकारः ॥ ३१ ॥ टीका-उक्तविषये कस्य विश्वासः स्यादित्याह-दृष्टान्तेत्यादिना · दृष्टांतदार्टीतिकयोः '-दृष्टान्तदायॊतसम्बंधि, 'इतीदम्'-इत्येतत् , पूर्वोक्तमित्यर्थः, ' साम्यं '-समत्वं, ' समालोचयतां '-विचारयताम् , 'परमार्हतानां'-परमजैनानां, 'नराणां'-मनुष्याणां, ' अर्हद्वचस्येव'-सर्वज्ञवचन एव, 'प्रतीतिः '-विश्वासः, भवति, ' अपरत्र'-अपरस्मिन् मिथ्यावाक्यवतीत्यर्थः, 'च'-नैव प्रतीतिर्भवति ॥ ७॥ मूलम्-अन्योऽपि दृष्टान्त इहोच्यतेऽय-माकर्णनीयो विदितप्रमाणैः। यथा हि कश्चित्प्रतिभान्वितः सन्नाजन्ममृत्यूदुभवमात्मशक्त्या ॥८॥ हिन्दूकषड्दर्शनपारशीक-शास्त्राणि सर्वाणि पठंस्त्रिलोक्याः। असङ्ख्यमायुर्निवहन्नपीह, हृदस्य पूर्ण न भवेत्कदाचित् शास्त्राक्षरैरप्यथ योजनैवं, यथैव शास्त्राणि भंवस्तथाऽयं । भवन्ति शास्त्राक्षरवविमुक्ताः, सुबुद्धिवक्षोवदियं हि सिद्धिः ॥१०॥ अश्रान्ततत्पाठवदेव मुक्ति-मार्गों वहन्नस्ति निरन्तरायः । शास्त्रेष्वधीतेषु न शास्त्रनाश-स्तथैव सिद्धेषु भवस्य नान्तः ॥११ ।। १. अतिशयवती बुद्धिस्तया युक्तः । २. जन्मन आरभ्य मरणं यावत् । ३. यावन । ४. संसारः । ५. सिद्धाः । ६. सुबुद्धिपुरुषविधायमान पाठ इव । ७. सर्वभव्यजीवेषु सिद्धिं गतेषु । ८. भवस्यार्थात्संसारस्थभव्यजीवस्य । SHOOCRACKERALA5% ॥३१॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy