________________
%AAAAAAACCI
'निर्गत्य'-निःसृत्य, 'नदीप्रवाहाः'-नदीनां धाराः, 'महोदधौ'-समुद्रे, 'पतन्ति'-पतनं कुर्वन्ति, परन्तु 'नदीहृदाः'नदीपग्रहदादयः, 'रिक्ताः'-शून्याः, जलहीना इत्यर्थः, नैव भवन्ति'-न जायन्ते, 'अम्बुधिः'-समुद्रश्च, 'कर्हिचित् '-कदापि, ' पूर्णः'-भृतः, 'नास्ति'-न भवति, कुतः? इत्याह-नदीप्रवाह इत्यादि ' यत्'-यस्मात् कारणात् , 'नदीप्रवाहोऽपि'-नदीनां धाराऽपि, 'निरन्तरं '-सततं, ' अविच्छिन्नतया '-अत्रुटिततया, ' अतिशीघ्रम्'-अतिक्षिण, वहति, यदि नदीहृदा रिक्ता भवेयुरंबुधिर्वा पूर्णः स्यात्तर्हि नदीप्रवाहोतिशीघ्रं निरन्तरमविच्छिन्नतया च न बहेदितिभावः, दृष्टान्तं दार्टान्ते घटयति, इत्थमित्यादिना 'ही'ति निश्चये, 'सागरान्तः'-समुद्रमध्ये, 'नदीप्रवाहा इव'-नदीनां धारा इव, 'भव्याः '-भव्यजीवाः, 'इत्थम् '-उक्तप्रकारेण, 'मुक्तौ'-मोक्षे, 'परियन्ति'-गच्छन्ति, यथा नदीप्रवाहाः समुद्रमध्ये यान्ति तथैव भव्या अपि मुक्तौ यान्तीतिभावः । एषः '-उक्तः संसारः, 'हृदवत् '-हृद इव, 'रिक्तः'-शून्यः, न भवति, यथा नदीप्रवाहं वहतेऽपि हृदा रिक्ता न भवन्ति तथैव भव्यानां मुक्तौ गमनेऽपि एष संसारो रिक्तो न भवतीतिभावः । 'पयोधिवत् '-समुद्र इव, 'मुक्तिः '-सिद्धालयोऽपि, 'भृता'-पूर्णा, नैव भवति, यथा सततं नदीप्रवाहपतनेऽपि समुद्रः पूर्णो न भवति तथैव सततं भव्यगमनेऽपि मुक्तिः पूर्णा न भवतीतिभावः ॥४-६ ॥ मूलम् दृष्टान्तदाष्टोन्तिकयोरितीद, साम्यं समालोचयतां नराणां ।
भवेत्प्रतीतिः परमाहताना-महद्वचस्येव न चापरत्र ॥७॥ १. परमजैनानां । २. मिथ्यावाक्यवति ।