________________
जैनतत्त्वसार
SHAR
सप्तमोऽधिकारः
॥३०
॥
मूलम्-सिद्धालयः स्याल्लवणोदसोदरः संसार एषोऽस्ति नदीहृदोदरः।
नदीप्रवाहाश्च यथा महोदधौ, पतन्ति निर्गत्य नदीहृदान्तरात् ॥४॥ नदीहृदा नैव भवन्ति रिक्ता, न चाम्बुधिः कर्हिचिदस्ति पूर्णः । नदीप्रवाहोऽपि निरंतरं य-द्वहत्यविच्छिन्नतयाऽतिशीघ्रं ॥५॥ इत्थं हि भव्याः पेरियन्ति मुक्ती, नदीप्रवाहा इव सागरान्तः।
संसार एष हृदवन्न रिक्तः, पयोधिवन्नैव भृतापि मुक्तिः ॥६॥ टीका-दृष्टान्तमाह-सिद्धालय इत्यादिना 'सिद्धालय:'-सिद्धानां स्थानं मुक्तिरिति यावत् , 'लवणोदसोदरः स्यात्'लवणोदः लवणसमुद्रस्तस्य सोदर इव भ्राता इव यः सः लवणोदसोदरः, सोदरशब्दोऽत्र प्रस्तावातादृशाथेस्तेन लवणोदसदृशोऽस्ति इत्यवगंतव्यं, 'एष:'-प्रसिद्धः, संसारः, 'नदीहृदोदरोऽस्ति'-नदीनां गंगादीनां हृदाः पद्महृदादयस्तेषामुदरं मध्यस्थजलप्रदेशस्तदिव यः सः नदीहृदोदरसदृशोऽस्तीतिभावः, अत्र लुप्तोत्प्रेक्षावाचि पदं ज्ञेयं यथाग्निर्माणवकः इति दृष्टान्तं घटयति । नदीप्रवाहाश्वेत्यादिना 'च' शब्दश्चरणपूर्ती, “ यथा '-येन प्रकारेण, 'नदीहृदान्तरात्'-नदीनां ये हृदास्तदनंतरात्तन्मध्यात् ,
१. लवणोदः लवणसमद्रः तस्य सोदर इव भ्राता इव यः सः लवणोदसोदरः सोदरशब्दोऽत्र प्रस्तावत्ताशार्थः । २. नदीनां गङ्गादीनां हवाः पद्मवादयस्तेषामुदरं मध्यस्थजलप्रदेशस्तदिव यः सः तत्सदृशः संसारः अत्र लुप्तोत्प्रेक्षावाचि पद शेयं यथा| निर्माणवकः । ३. मध्यात् । ४. अत्रुटितया । ५. गच्छन्ति ।
IROADCASH