________________
C45445C%ACAUSALKOT
'कदापि '-कस्मिंश्चिदपि समये, 'नो पूर्यते'-न पूर्ति याति, 'च'-पुनः, 'एषः'-प्रसिद्धः, संसारोऽपि, 'भव्यशून्यः - भव्यर्भव्यजीव रहितः कदापि नो भवति 'एतत्'-पूर्वोक्तं, 'वाक्यम्'-वचनम् , 'परस्परद्वेषिवचोविलासैः'-मिथो द्वेषयुक्तवाग्विलासैः, 'संगति'-सिद्धिं, 'न मङ्गति'-न गच्छति, न सिद्ध्यतीत्यर्थः । मुक्तिमार्गः सदा वहति, मुक्तिर्न पूर्यते, संसारश्च भव्यशून्यो न भवति इत्येतानि वाक्यानि परस्परं विरुद्धार्थप्रतिपादकानि यतो यदि नाम मुक्तिमार्गः सदा वहति तहिं मुक्तः पूर्तिः स्यात् संसारश्च भव्यशून्यः स्यान्न च तथा भवति तस्मादुक्तवाक्यस्य सिद्धिर्न भवितुं शक्नोतीतिभावः ॥ १-२॥ मूलम्-न हि व्यलीकं भगवद्वचोऽस्त्यदः, परं न चित्तेऽल्पधियामभिव्रजेत्।।
दृश्योऽस्ति दृष्टान्त इहैव लौकिको, यं शृण्वतां श्रोतृनृणां मनः स्थिरं ॥ ३ ॥ टीका-अस्योत्तरमाह-न हीत्यादिना ‘अदः'-पूर्वोक्तं, ' भगवद्वचः'-सर्वज्ञवचनं, 'व्यलीक'-मिथ्या, 'न ह्यस्ति'-न भवति, तर्हि किमस्तीत्याह-परमित्यादिना 'परं'-परन्तु, 'अल्पधियाम् '-अल्पबुद्धिमता, 'चित्ते'-मनसि 'नाभिव्रजेत्'-न तिष्ठति, 'अल्पधीः विचारविषयो न भवतीतिभावः' दृश्य इत्यादि ' इहैव'-अस्मिन्नेव विषये, 'लौकिक'- | लोकसिद्धः, 'दृष्टान्तः '-निदर्शनम् , ' दृश्यः'-दर्शनीयोऽस्ति, 'यं'-दृष्टान्तं, 'शृण्वतां'-श्रवणकर्तृणां, 'श्रीनृणां - श्रावकजनानां, 'मनः'-चित्तं, 'स्थिरं'-अचश्चलम् भवति ॥ ३ ॥
१. आप्त । २. दृष्टान्तं ।