SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जैन तत्वसार ॥ २९ ॥ ॥ अथ सप्तमोऽधिकारः ॥ मुक्तिप्रवाहाविच्छिन्नतां संसार भव्याशून्यताञ्च द्वादशभिः श्लोकैराह - मूलम् - प्रश्नस्तथैकः परिपृच्छयतेऽसकौ, सिद्धान्समाश्रित्य निजोपलब्धये । सर्वज्ञवाक्यात् किल मुक्तिमार्गको, वहन् सदास्ते करकस्य नालवत् ॥ १ ॥ नो पूर्यते मुक्तिरसौ कदापि, संसार एषोऽपि च भव्यशून्यः । परस्परद्वेषिवचोविलासै र्न सङ्गतिं मङ्गति वाक्यमेतत् ॥ २ ॥ टीका - प्रसंगाद् मुक्तिविषये प्रश्नयति प्रश्नस्तथैक इत्यादिना 'तथे 'ति समुच्चये, 'असकौ ' - वक्ष्यमाण एकः प्रश्नः परिपृच्छयते, कानुद्दिश्य परिपृच्छयते ? इत्याह- 'सिद्धान् समाश्रित्येति' - सिद्धानुद्दिश्येत्यर्थः किमर्थं परिपृच्छयते ? इत्याह-निजोपलब्धये इति स्वकीयज्ञानार्थमितिभावः, प्रश्नस्वरूपमाह - सर्वज्ञेत्यादिना किलेति स्ववार्तायाम् 'सर्वज्ञवाक्यात् ' - सर्वज्ञस्य वाक्येन यद्यथेतज् ज्ञायते यत् ' मुक्तिमार्गकः - मुक्तेर्मार्गः, ज्ञानदर्शनचारित्ररूप इत्यर्थः, 'सदा-सर्वदा, 'करकस्य - मदाग्लोर्नावत् नालिकावत्, 'वहन् - प्रवाहं कुर्वन्, 'आस्ते ' - तिष्ठति, तथापि 'असौ ' - प्रसिद्धा, 'मुक्ति: ' - मोक्षः, १. स्वकीयज्ञानार्थं । २. प्रशंसायां प्रसिद्धौ वा स्वार्थे वा क प्रत्ययः । ३. मागि गतौ भौवादिको गत्यर्थः गच्छति । सप्तमोऽधिकार: ॥ २९ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy