SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जैन तत्त्वसार ॥ २८ ॥ मूलम् - वायोस्तथा चञ्चलतास्वभावो, यो वर्तमानः सहजः समस्ति । खेलस्य मध्ये पवने निरुद्धे, कथं प्रयात्येष चलस्वभावः १ ॥ ९ ॥ टीका - दृष्टान्तरमाह - वायोस्तथेत्यादिना ' तथा ' शब्दः समुच्चये, ' वायोः ' - पवनस्य, ' यः सहजः ' - सहोत्पन्नः स्वाभाविक इति यावत्, 4 चञ्चलतास्वभावः '- अस्थिरत्वस्वभावः, ' वर्त्तमानः - प्रवृत्तिं कुर्वन्, 'समस्ति - विद्यते, ' एष चलस्वभाव: '- चांचल्यस्वभावः, 'खलस्य मध्ये ' - दृप्त्या अभ्यन्तरे, 'पवने ' - वायौ, 'निरुद्धे ' - अवरोधं गते सति, 'कथं' - केन प्रकारेण, ' प्रयाति '- गच्छति । यथा खले निरुद्धस्य वायोः सहजोऽपि चलस्वभावोऽपैति तथैव सिद्धानां कर्मग्रहणस्वभावोsपि तद्दशायामपैतीतिभावः ॥ ९ ॥ मूलम् - आहारमुख्याः सहजाश्चतस्रः, संज्ञा इमाः प्रोज्झ्य शुकादयोऽमी । सिद्धाः प्रसिद्धाः परब्रह्मरूपाः, जातास्ततोऽपैति निजस्वभावः ॥ १० ॥ टीका - अत्रैव दृष्टान्तरमाह - आहारमुख्या इत्यादिना 'अमी ' - एते, 'प्रसिद्धाः ' - आख्याताः, 'शुकादयः - शुकादिमुनयः, ' इमाः ' - प्रसिद्धाः, 'सहजाः सहोत्पन्नाः स्वाभाविका इति यावत्, ' आहारमुख्याः ' - आहारादिका आहारभयमैथुनपरिग्रहरूपी इत्यर्थः, ' चतस्रः '-चतुः संख्याकाः, ' संज्ञाः ' - अभिलाषान्, 'प्रोज्झ्य' - त्यक्त्वा, 'सिद्धा: ' - सिद्धिं गताः सन्तः, ' परब्रह्मरूपाः ' - परब्रह्मस्वरूपाः, ' जाताः अभवन्, फलितमाह तत इत्यादिना ' ततः ' - तस्मात् कारणात् १. खलस्य दृप्त्यां । २. शुकादयः शैवशासनप्रसिद्धाः । षष्ठोsधिकारः ॥ २८ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy