________________
-964C4%C
45615-
टीका-स्वभावपरिवर्तन एव पुनदृष्टान्तमाह-यश्चुम्बकेत्यादिना 'चुम्बकग्रावणि'-चुम्बकपाषाणे, यो, 'लोहग्राही'लोहाकर्षकः स्वभावः, 'आस्ते '-विद्यते, 'सकः'-सः, 'सहजः'-सहोत्पन्नः स्वाभाविक इति यावत्, 'अस्ति'| विद्यते, परन्तु ' तस्मिन् '-चुम्बकग्रावणि, 'मृते'-अग्निना भस्मीभूते सति, 'वा'-अथवा, 'इतरयोगयुक्त'-तदर्पहारिणौपधादिना संयक्ते सति. 'सः-स्वभावः, 'अति'-याति, दान्तेि योजनामाह-इत्थमित्यादिना 'इत्थम् '-अनेन प्रकारेण, 'एतेषु'-सिद्धेष्वपि, 'कर्मयोगः'-कर्मसंबन्धः, अपैति ॥ ७॥ मूलम्-बीजं तथाङ्कुरभवं दधाति, मौलात्स्वभावादविकारि यावत् ।
तस्मिंस्तु दग्धे न किलाङ्कुरोद्भव, एवं तु सिद्धषु न कर्मबन्धः ॥ ८॥ टीका-दृष्टान्तमाह-बीजमित्यादिना ' तथा ' शब्दः समुच्चये, यावदिति'-यावत्कालपर्यन्तमित्यर्थः, 'अविकारि'विकाररहितम् भवति तावत् , 'बीज'-धान्यादि, 'मौलात् '-मूलजातात् , स्वभावात् , 'अंकुरभवं'-अंकुरोत्पत्ति, अंकुरोत्पादनशक्तिमितिभावः, 'दधाति'-धत्ते, 'तु'-परन्तु, 'तस्मिन् '-बीजे, 'दग्धे'-अग्निना भस्मीभूते सति, 'किले 'ति | निश्चये, 'अंकुरोद्भवः'-अङ्करस्योत्पत्तिर्न भवति, दान्तेि योजनमाह-एवं त्वित्यादिना ‘एवं वि 'ति-एवमेवेत्यर्थः, 'तु' शब्द एवकारार्थः, 'सिद्धेषु'-' सिद्धिं गतेष्वात्मसु, ‘कर्मबन्धः '-कर्मसंयोगो न भवति ॥ ८॥
१. धान्यादि । २. उत्पत्ति । ३. उत्पत्तिः ।
CALCIROORKERSAGARAAT
%