________________
0
जैनतत्त्वसार
षष्ठोऽधिकारः
॥ २७ ॥
64345%
A
'मन्त्रयोगात् '-मन्त्रसंबन्धात् , ' तथा' शब्दः समुच्चये, 'औषधीभिः'-औषधेश्च, 'बद्धः'-बंधनं प्राप्तः विनष्टदाहकत्वगुणः सन्नितिभावः, 'एषः'-अग्निः, 'विशन्तम् न दहेदिति'-प्रवेशकर्तारं जनं दग्धुं न शक्नोतीतिभावः, 'तथा' शब्द: समुच्चये, 'अग्निं '-वह्निम् , ' अनंत-भुञ्जानं, 'चकोरकं '-चकोरनामकं पक्षिणं, 'विगतस्वभावः'-विनष्टस्वभावः सन् , 'वहिः'-अग्निः 'नो दहेत '-दग्धुं न शक्नोति ॥ ५॥ मूलम्-तथाभ्रकं हेम च रत्नकम्बलं, सिद्धं च सूतं न दहेद्धताशनः ।
तदा तु या दाहकता विभावसौ, मौली ब्रजेत्काथ निगद्यतामिति ॥ ६ ॥ टीका-अत्रैव पुनः पुष्टिमाह-तथाभ्रकमित्यादिना ' तथा ' शब्दः च शब्दौ च समुच्चये, 'अभ्रक'-गिरिजामलम् , " हेम'-सुवर्णम् , ' रत्नकम्बलं '-सिद्धमौषधादिभिर्भवितं, 'मूतं'-पारदं च, ' हुताशनः '-अग्निः , 'न दहेत्'-दग्धुं न शक्नोति, फलितमाह-तदा वित्यादिना ' तदा'-तस्मिन् काले, 'विभावसौ'-वह्नौ, या 'मौली'-मूलजाता, दाहकत्वम् अस्ति प्रश्ने 'क'-कुत्र, 'बजेद् '-गच्छति, 'इति'-एतद् , 'निगद्यताम् '-उच्यताम् भवता ॥६॥
मूलम्-यश्चुम्बकग्रावणि लोहग्राही, स्वभाव आस्ते सहजः सकोऽस्ति ।
- तस्मिन्मृते वेतरयोगयुक्त,-ऽपैतीत्यमेतेष्वपि कर्मयोगः ॥७॥ १. अग्नौ । २. हादिपाठात् न पूर्वस्य दीर्घः । ३. सहोत्पन्नः । ४. मृते अग्निना भस्मीभूतेऽथवान्यौषधादिना तदर्पहारिणा | संयुक्ते । ५. यातीत्यर्थः । ६. सिद्धेषु ।
C
-%%
॥२७॥
AESO