SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ACACA4% 'अग्न्यस्थिरभावसंज्ञः'-अग्नौ स्थिराभावनामकश्च स्वभावः, 'मौलः'-मूलजातः, अस्ति, 'तु'-परन्तु, 'यदा'-यस्मिन् | काले, ' तादृक् परिकर्मणा कृतः'-तादृशभावनाभिर्विहितो भवति, 'तदा'-तस्मिन् काले, 'च' शब्दश्चरणपूत्तौं, 'वह्निगतः'-वह्रि प्राप्तः, 'स्थिरः'-चांचल्यरहितः, 'तिष्ठेत् '-भवेत् ॥ ३॥ मूलम्-यथा पुनर्दाहकतागुणोऽग्ना-बस्ति स्वभावो ननु मूलजातः । - अस्यापि नाशोऽस्ति तथाप्रयोगात्, संन्तं संती नैव दहेकदापि ॥ ४ ॥ टीका-दृष्टान्तरमाह-यथेत्यादिना 'यथा' पुनरिति यथा चेत्यर्थः, 'नन्त्रि 'ति निश्चये, 'अग्नौ'-वहौ, 'दाहकतागुणः'-दाहकत्वगुणविशिष्टः स्वभावः, 'मूलजातः'-मौलोऽस्ति, परन्तु 'तथाप्रयोगात् '-तद्वीर्योपघातकारिसामग्रीसंबन्धात् , 'अस्यापि '-दाहकत्वस्वभावस्यापि, 'नाशोऽस्ति'-नाशो भवति, अत्रैव दृष्टान्तरमाह-सन्तमित्यादिना 'स'अग्निः, 'सन्तं'-साधु सत्यवादिनम् इत्यर्थः, तथा 'सती'-पतिव्रतां शीलवतीमितिभावः, 'कदापि '-कदाचित् , ' नैव | दहेत्'-न दहति, स्वभावनाशाद् दग्धुं न शक्नोतीतिभावः ॥ ४ ॥ मूलम्-बद्धो यथाप्येष च मन्त्रयोगात्, तथौषधीभिर्न दहेद्विशन्तम् । अनन्तमग्निं च चकोरकं तथा, वह्निर्दहेन्नो विगतस्वभावः ॥५॥ टीका-अग्निस्वभावनाशविषय एव पुष्टिमाह-बद्ध इत्यादिना 'यथा'-अपीति अन्यच्चेत्यर्थः, 'च' शब्दश्चरणपूत्तौं, १. तद् वीर्योपघातकारिसामग्रीसम्बन्धात् । २. सन्तं साधु सत्यवादिनम् । ३. सती शीलव्रतवतीं सीतादिकां । RRCRECARECHARASHARA 82%ACADCA
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy