SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वसार पंचमोऽधिकारः ॥ २५॥ स्य वस्तुनः, ' कोऽपि '-कश्चित् , ' स्पर्शः' स्पर्शनं त्वगिंद्रियजन्यं सुखमितिभावः, न अस्ति, 'च' शब्दः समुच्चये, 'भुक्तियुक्तिः'-भोगसंबन्धोऽपि, नैवाऽस्ति, 'गन्धग्रहः'-गन्धस्य ग्रहणं, 'नो'-नैवाऽस्ति, 'तदा'-तस्मिन् काले, |च 'दृक्छूती' दर्शनं श्रवणं च, नास्ति, 'च'-पुनः, 'पाणिपादादिभवा'-हस्तपादादिजन्या, 'क्रिया'-चेष्टाऽपि, नास्ति तथापि 'संतोषवता'-संतोषयुक्तेन तेन मुनिना, 'अहं सुखी '-सुखयुक्तोऽस्मीति, 'एषा '-वार्ता, 'भूयः'-भृशं, 'प्रणिगद्यते'-कथ्यते, 'अतः'-अस्मात् कारणात् , ' तत् '-पूर्वोक्तं स्वस्य, 'ज्ञानसौख्यं'-ज्ञानरूपं सुखं, 'ही 'ति निश्चये, 'सः'-मुनिः, एव, वेत्ति '-जानाति, ' ज्ञानहीनो'-ज्ञानविरहितः, अज्ञानीति यावत् , 'गदितुं'-कथयितुं, 'न समर्थः '-न शक्तोऽस्ति ॥ ११-१६ ॥ मूलम् इत्थं हि सिद्धेषु विनेन्द्रियाथै-स्तथा क्रियाभिः सुखमस्त्यनंतम् । ते एव तत्सौख्यभरं विदन्त्यपि, ज्ञानी न शक्तो वदितुं यतोऽसमम् ।। १७ ॥ टीका-फलितमाह-इत्थमित्यादिना ' इत्थम् '-अनेन प्रकारेण, ' ही 'ति निश्चये, 'सिद्धेषु'-सिद्धात्मसु, ' इन्द्रियार्थः विना '-ज्ञानेंद्रियविषयान् विना, ' तथा ' शब्दः समुच्चये, “क्रियाभिः'-मनोवाकायजनिताभिः चेष्टाभिर्विना, 'अनन्तम् '-अन्तरहितम् शाश्वतमितिभावः, 'सुखं'-सौख्यमस्ति, 'तत्सौख्यभरं'-स्वसुखसमूह पूर्वोक्तसुखसमूह वा, 'ते' १. बुद्धीन्द्रियक्रियेन्द्रियसमुत्पन्नगोचरैर्विना । २. क्रियाभिः मनोवाकायजनिताभिर्विनेत्यर्थः । ३. ते एव सिद्धा एव ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy