________________
हेतुद्योतने, तदा, ' एष: ' - ज्वरादिबाधाविधुरोऽंगी, 'सुखं करोति ' - सुखमनुभवति, 'न बोधनीय इति ' - अयं न जागरणीय इत्यर्थः, ' एषा' - वार्ता, ' तञ्जनैः ' - रोगीभिः जनैः, 'तु' शब्दवरणपूर्ची, 'उच्यते ' - कथ्यते, यद्यपि ' तत्र '-निद्रावस्थायां, ' तस्य '– शयानस्थ, 'किश्चित् '-किमपि, ' श्रीतः सुखम् ' - इन्द्रियसौख्यं न भवति, 'क्रिया' - करपादादिसमुद्भूता चेष्टा, अपि, 'न निरीक्ष्यते न दृश्यते, तथापि, भुवि - पृथिव्यां संसारे इति यावत् ' यथा - येन प्रका रेण, 'सुप्तस्य नरस्य ' - शयानस्य नरस्य, 'सौख्यं '-सुखं, ' वाच्यं - कथनीयं, ' स्यात् ' - भवेत्, ' तद्वदेव - तथैव, ' इन्द्रियद्वैतसमुत्थभोगम् ' - विना क्रियेन्द्रियबुद्धींद्रिययुग्मोत्पन्नभोगमंतरेणैव, 'सिद्धेषु ' - सिद्धात्मसु ' सदैव ' - सर्वदैव, सर्वकालमेवेत्यर्थः, 'सौख्यम् ' -सुखं, ' भवति ' -उच्यते, कथंभूतेषु सिद्धेषु ? ' जाग्रत्सु ' - ज्ञानवत्सु, दृष्टान्तरमाह-यद्वेत्यादिना ' यद्वा ' - अथवा, ' ही 'ति निश्वये, ' योगी ' -योगकर्त्ता, ' निजकात्मबोधामृतं पिबन् ' - स्वात्मज्ञानामृतस्य पानं कुर्वन्, ' अहम् सुखी' - सुखयुक्तोऽस्मीति, ' मन्ता' - मननकर्त्ता भवति, दृष्टान्तरमाह - तथा चेत्यादिना ' तथा चे 'तितथैव चेत्यर्थः, ' इह ' - अस्मिन्संसारे, ' यथोक्तः ' -उक्तप्रकारनिजकात्मबोधामृतं पिबन्नित्यर्थः, ' कोऽपि - कश्चित्मुनिः, ' अन्येन ' - अपरेण, ' पुंसा' - जनेन, ' चेत् ' - यदि, परिपृच्छयते, किं परिपृच्छ्यत इत्याह- त्वमित्यादिना ' त्वं कीदृशो - ऽसीति 'त्वं कीदृक प्रकारोऽसि, सुख्यसि दुःखी वाऽसीत्यर्थः, तर्हि ' सः ' - मुनिः, 'जल्पेत् ' - कथयति, ' यदहं ' ' सुखी ' - सुखयुक्तोऽस्मि, कथंभूतो मुनिः १ सन्तुष्टिपुष्टः '- सन्तुष्ट्या - संतोषेण पुष्टः- पूर्णः कथंभूतो ? ' विजितेंद्रियार्थः ' - विजिता इन्द्रियाणामर्था - विषया येन सः, तथा यद्यपि ' तस्मिन् क्षणे ' - काले, ' तस्य '- मुनेः, ' सतः ' - उत्तम